This page has not been fully proofread.

चतुर्थ सर्गः
 
नाथ आह । यद्वा
 
जयलक्ष्म्याः केलिदर्पणानि
 
स्वमुखविलासादि
 
द्रष्टुं सविलास पाणौ धृतानि ( अत्यादरपात्राणि ) क्रीडामुकुराणीति
वा । तैः तथाभूतैः आतपत्त्रैः राज्ञां श्वेतच्छत्त्रैः । कर्तृभिः । आकाशम्
गगनम् । अस्तः नष्टः अवकाशः स्वाश्रयभूतः प्रदेश: यस्मिन्
तत्तथोक्तम् । तादृशं सत् । स्वसत्ताया अप्यनुपलब्धावकाशं सदित्यर्थः ।
यद्वा - अस्तः नष्टः अवकाशः तेषां तेषां मध्ये निरवकाशता । स
यस्य तादृक् सत् । अजायत अजनि अभूत् ।
संख्याकै: राजभिर्नभस्तलमत्यन्तमाक्रान्तमभूत्तदानीमिति
 
श्वेतच्छत्रधारिभिर
भावः । अत्र सेना
 
दिषु सरित्त्वाद्यारोपणमातपत्रेष्वम्भोजत्वाद्यारोपणस्य हेतुभूतमिति पर
म्परितरूपकमलङ्कारः ॥
 
श्वेतव्यजनधारित्वमपि राज्ञां प्रधनलाञ्छनमिति तदत्र राज
 
प्रस्तौति
 
-
 
>
 
-
 
7
 
विजृम्भमाणे प्रस्थान शारदारम्भसंभ्रमे ।
 
नृपाणां चामरालीभि मंरालीभिरजायत ॥ 13
 
R
 
215.
 
विज़म्भमाणेति ॥ प्रस्थानम् जैत्रयाता । तदेव शारदारम्भः
शरत्कालसंबन्धी प्रारम्भ: शरत्समयसमागम इत्यर्थः । तस्मिन् संभ्रमः
संवेगः हर्षोत्साहादिभिः कर्मसु त्वरा । 'समौ संवेगसंभ्रमौ' इत्यमरः ।
अन्यत्र प्रस्थानम् मानसाद्भ लोकागमनम् । तस्य तदर्थे । शारदारम्भ
संभ्रम: शरत्समयप्रारम्भसञ्जातः आवेगः । वर्षाक़ालादन्यत्र मानससरसो
घनीभूतहिमत्वेन हंसानामनुपभोग्यज़लत्वात् वर्षासु तत्रत्या हंसाश्शरदि
भूलोकमायान्तीति प्रसिद्धिः । अत्र नाथः - हिमालयैकदेशस्थं मानसं
हिमदूषितसलिलादिकत्वादनुपभोग्यं भवति । वर्षसमये तु वर्षजलविर
लितहिमत्वात्तस्य हंसनिवासयोग्यत्वमस्ति । नित्यप्रसन्नत्वाद्देशान्तरतटा
कादिवत्कालुष्यं न भवतीत्युदीच्या उपदिशन्तीत्यनुसंधेयम्" इति ।
शरद्वर्णने भवभूतिः
क्रौञ्चस्य भेदात्कृतधरणितलापूर्वहंसावतार: "
 
""