This page has not been fully proofread.

(41
 
चतुर्थ सर्गः
 
213
 
इति धातुपाठे पठितम् । तस्माच्छ्ता । अश्वगतयश्च पञ्चविधाः ।
ता एव धाराशब्देन व्यवह्रियन्ते । ता इत्थमुक्ताः
"आस्कन्दितं
धौरितकं रेचितं वल्गितं प्लुतम् । गतयोऽमूः पञ्च धारा: " इति ।
अत्र 'वल्गन्त' इति गमनसामान्यवाचिनः प्रयोगात् पञ्च धारा विव
क्षिता इति वक्तुं शक्यते तथापि तरङ्गसाम्यात् प्लुतगमनमेव विव
क्षितमिति युज्यते । सेनैव सैन्यम् । चतुर्वर्णादित्वात् ष्यञ्। 'सैन्यं
सैनिकसेनयोः' इत्यमरः । तदेव जलधि: समुद्रः तस्य तरङ्गाः वीचय
इव । रेजिरे प्राकाशन्त । राजू दीप्तावित्यस्माल्लिट् ।
'फणां च
सप्तानाम्' इत्येत्वाभ्यासलोपौ पक्षे । अत्र समुद्रवदपारे तत्रत्ये सैन्ये
प्लुतगमनेन सत्वरं फेनिलमुखैः प्रयान्तीयमश्वसेना वायुवेगान्महता
संरम्भेण वियद्वीथीं स्पृशन्तः फेनवन्तस्तरङ्गा इव संदृश्यन्त इति
समस्तवस्तुविषया सावयवोपमेति वक्तुं शक्यते तथापि — सैन्यजलधे
स्तरङ्गी' इत्यनेन 'सैन्ये जलधित्वरूपणात् वस्तुतस्तादृशजलधेरेवाप्र
सिद्धया तदीयतरङ्गाणां नितरामप्रसिद्धिरिति तादृशजलधितरङ्गाणां
तादात्म्यसंभावनैकगोचरत्वेन नेयमुपमा किंतुत्प्रेक्षैवेति सिद्धान्तः ।
अत्र 'वल्गन्तः, फ़ेनिलै : ' इत्यादिभिः: श्लेषमूलकशब्द मात्र साधर्म्यसमुल्ला
सस्तु कवेरुत्प्रेक्षापरिपोषण एव तात्पर्यमवगमयतीति नैवोपमायास्त
साधकम् ॥
 
राजागमनं वर्णयितुं पुरस्ताद्दण्डनायकानां तदागमननिरीक्षां
 
कथयति
 
11
 
प्रस्थानोचितमाकल्पं बिभ्राणा बाहुशालिनः ।
राजन्यास्तोरणाभ्यर्णे नृपालं प्रत्यपालयन् ॥ ॥11॥
 
प्रस्थानेति ॥ बाहुभ्याम् शालन्ते प्रकाशन्तीति बाहुशालिनः ।
बाहुबलसंपन्ना इत्यर्थः । आज़ानुलम्बिभुजा इति वा । ( तादृशाः )