This page has not been fully proofread.

मधुराविजये
 
वानरान् सप्तशतानि वीर: प्रासेन दीप्तेन विनिबिभेद
इत्याद्युक्तम् ।
शक्तिकुन्तौ भिन्नाविति चम्पूरामायणतोऽवगम्यते - " विशिखकृपाणकुन्त
शक्तिप्रमुख विविधायुधसंस्कारपरवशयोधसंबाधम्" इति । पाणौ तत्
येषां ते तथोक्ता'। 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्या विति सप्तम्यन्तस्य
परनिपातः । तथाविधा: । नैकदेश्या: एकस्मिन् देशे भवाः एकदेश्याः ।
ते न भवन्तीति तथा । अनेकप्रदेशेषु स्थिता इत्यर्थ: ।
पदातयः भटाः । पादाभ्याम् अतन्ति सततं गच्छन्तीत्यतेः
तिभ्यां पादे चे' त्यौणादिक इण् । 'पादस्य पदाज्यातिगोपहतेषु'
इति पादस्य पदादेशश्च । सहसा सत्वरम् । समगच्छन्त सममिलन् ।
तत्र तत्र स्थिता भटा एकत्र परस्परं समश्लिषन्निति यावत् ।
आरचितश्रेणयो व्यूहितास्समभवन्निति भावः । संपूर्वाद् गमेर्लङ् ।
'समो गम्यृच्छिभ्या' मित्यात्मनेपदम् ॥
 
तादृशः
" अज्य
 
212
 
अश्वसेनाप्रस्थानमिदानी प्रब्रूते
 
L
 

 
"
 
समीरणरयोदग्रा वल्गन्तः फ़ेनिलैर्मुखः ।
तुरङ्गास्सैन्यजलधे स्तरङ्गा इव रेजिरे ॥
 
11 10 11
 
समोरणेति ॥ समीरण: वायुः । तस्य रयः वेगः वायुवेग
 
अन्यत्र समीरणात्
 
सदृशवेग इत्यर्थः । तेन उदग्रा: भयङ्कराः ।
वायोः रयः वेगः तदुद्भू तवेग इत्यर्थः । तेन उदग्रा: उन्नता: ऊर्ध्वं
प्लवमाना इत्यर्थ: । तुरङ्गा: अश्वाः । कर्तारः । फेनिलै: फेनवद्भिः ।
फेनशब्दः एकत्र लाक्षणिकस्सन् सान्द्रमुखजलोद्गारं ब्रूते । अन्यत्राब्धि
कफम् । 'हिण्डीरोऽब्धिकफ' फेनः' इत्यमरः । 'फेनादिल' च्चेति
मत्वर्थे इलच् । तादृशैः मुखैः आननैः अन्यत्र अग्रभागच । सहार्थे
तृतीया । तैस्साकमित्यर्थः । वल्गन्तः गच्छन्तः उत्प्लुत्योत्प्लुत्य व्रजन्त
स्सन्त इत्यर्थः । अन्यत्र संचरन्तः । वल्गरगिलगीत्यादयो गत्यर्था