मधुराविजयम् /345
This page has not been fully proofread.
मधुराविज़ये
र्यमाण इति यावत् । तादृक् कुथ: आस्तरणम् चित्रकम्बलम् येषु
ते तथोक्ताः । तादृशाः मातङ्गाः गजाः यस्मिन्निति बहुव्रीहिगर्भो
बहुव्रीहिः । तथाविधं सत् । किञ्च । आत्तम् गृहीतम् स्वोपरिष्टात्
न्यस्तम् पर्याणम् पल्याणम् यैः तथोक्ताः । तादृशः । सिन्धुषु भवाः
सैन्धवाः सिन्धुदेशीया हयाः यस्मिन् तत्तथोक्तम् । 'तत्र भव' इत्यण् ।
'सैन्धवस्तु सिन्धुदेशोद्भवे हये । मणिमन्थेऽपि' इति हैमः । तथा
विधं सत् । किञ्च । संवमिता: - वर्म सञ्जातमेषामिति तारकादि
त्वादितच् । सम्यग्वर्मिता संवमिताः धृतकवचा इति यावत् ।
'संनद्धो वर्मितस्सज्जो दंशितो व्यूढकङ्कटः' इत्यमरः । तादृशो भटाः
यस्मिन् तथाविधं सत् । समनह्यत समसज्जत सर्वतस्सन्नद्धमभव
दित्यर्थ: । अव भट्टमल्ल "संवर्मयति सन्नात्यात्मने सज्जतीत्यमी ।
संयतते दंशयते सन्नाहे पदपञ्चकम्" इति । अत्र 'हस्त्यश्वरथपादातं
सेनाङ्गं स्याच्चतुविधम्" इति बलस्य चतुर्विधत्वेऽपि तदानीन्तनं चरित्रं
यथातथं वक्तुकामासौ रथान् व्यसर्जयत् । एतदनुगुणतयैव भाविनि
युद्धवर्णने रथयुद्धं नावर्णयत् ॥
।
210
'इयं हि श्रीयॅ करिणः' इत्यागमात्सेनाप्रस्थाने गजप्रस्थान
मादौ वर्णयति
विशङ्कटकटाघाट विगलन्मदनिर्झराः ।
परश्शतं जघटिरे विकटा: क़रिणां घटाः ॥ ॥ 8 ॥
- विशङ्कटेति ॥ विशङ्कटाः विपुलाः । 'विशङ्कटं पृथु महद्विशालं
पृथुलं महत् । वड्रोरुविपुलम्' इत्यमरः । ' वेश्शालच्शङ्कटचा' विति
साधुः । तादृशः कटा: गण्डा : तेषाम् आघाटा: प्रदेशाः । पर्वतोपरि
प्रदेशा इति गम्यते । तेभ्यः विगलन्तः स्रंसमाना: मदा एव निर्झरा:
वारिप्रवाहाः । ' उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झर: ' इत्यमरः ।