मधुराविजयम् /344
This page has not been fully proofread.
चतुर्थसर्गः
तस्मिन्विसर्पति त्रास मीलिताशेषलोचनः ।
शेषो युगपदज्ञासी दान्ध्यबाधिर्ययोर्दशाम् ॥
॥ ॥
तस्मिन्निति ॥ तस्मिन् ध्वनौ । विसर्पति व्याप्नुवति पातालं
प्रविशति सतीत्यर्थ: । शेष: अनन्तः नागस्वामी । कर्ता । • शेषोऽनन्ते
वधे सीरिण्युपयुक्तेतरेऽपि च ' इति हैमः । वासः भयः तेन निमीलितानि
मुकुलीभूतानि अशेषलोचनानि अखिलनयनानि द्विसहस्रं नयनानीत्यर्थः ।
तानि येन तथोक्तः । तादृक् सन् । अन्धयति अन्धः अदृक् । अन्ध
दृष्ट्युपघाते- अच् । तस्य भावः आन्ध्यम् 'गुणवचनब्राह्मणादिभ्यः' इति
ष्यञ् । बधिर : एडः श्रवणेन्द्रियशक्तिशून्य' । 'स्यादेडे बधिर' इत्यमरः ।
तस्य भावः बाधिर्यम् शब्दग्रहणराहित्यम् । तयोः दशाम् अवस्थाम् ।
युगपत् एकदा एककाल एव । अज्ञासीत् अवेदीत् अन्वभूदित्यर्थः ।
तस्य चक्षुरश्रवस्त्वादिति भावः । उच्चैस्तरध्वनेश्श्रवणभेदः प्रत्यक्षदृष्ट
इति स एवासीदिदानीं नागराजस्येत्युच्यते । तेन भूमिं वहतो धीरस्य
भगवदंशसंजातस्य शेषस्याप्ययं भीतिजनकोऽभवदिति ध्वनेरुत्कर्षस्य
पराकाष्ठा कथ्यते । ' मीलिताशेषलोचन: ' इत्यनेन च शरीरकम्पादयो
भीत्यनुभावास्सर्वेऽपि भयानकाङ्गतया शेषे वर्ण्यन्ते । अनेन च भूकम्पाद
योऽत्र व्यज्यन्त इति वस्तुना वस्तुध्वनिः । अत्र भगवतश्शेषस्य त्रस्यत एवं
विधदशानुभूतेरसंबन्धेऽपि तत्सम्बन्धो वर्णित इत्यतिशयोक्तिः ॥
प्रस्थानाय कृतसमुद्योगां सेनां वर्णयति –
आबद्धकुथमातङ्ग मात्तपर्याण सैन्धवम् ।
संवमितभटं सद्य स्समनह्यत तद्बलम् ॥
आबद्धेति ॥ तत् बलम् रणविजयित्वेन सुप्रसिद्धं
209
117 11
कम्पराज
सैन्यम् । सद्यः समानेऽहनि तत्काल इत्यर्थः ।
दिति
निपातनात्साधुः । आबद्ध आनद्धः सम्यग्योजित: आच्छादितः आस्ती
'सद्यः परु
"