मधुराविजयम् /343
This page has not been fully proofread.
मधुराविजये
शत्रुभीता जनाः पर्वतगुहासु स्वप्राणरक्षणं कुर्वन्तीति प्रसिद्धम् । तेषाम्
विध्वंसनम् नाशः तस्मिन् उत्सुक: तत्परः तादृगिष्टार्थसाधनायोद्यत
इत्यर्थः । शत्रुशेषं न शेषयेदिति न्यायादवश्यंभावितन्नाशस्य सुकरत्वे
तदाश्रयनाशस्य हेतुत्वादिति भावः । प्राय इति संभावनायाम् । एवं
संभाव्यमान इत्यर्थः । प्रतिध्वाननिभात् प्रतिध्वानः प्रतिश्रुत् प्रतिध्वनिः
स एव निभः व्याजः तस्मात् प्रतिध्वनिरूपेणेत्यर्थः । 'स्त्री प्रतिश्रुत्
प्रतिध्वाने' इत्यमरः । 'निभस्तु कथितो व्याजे पुंलिङ्गस्सदृशे त्रिषु'
इति मेदिनी । अवनिभृताम् भूधराणाम् पर्वतानाम् गुहा: गह्वराणि
देवखातबिले गुहा गह्वरम्' इत्यमरः । जगाहे प्रविवेश । दूरस्थाः
पर्वतगुहा अपि तन्नादेन प्रतिध्वनन्तीति ध्वन्युत्कर्षो वर्णितः । गाहू
विलोडने - लिट् । ' विलोडयति मध्नाति मथत्येवं खजत्यपि । गाहते
मन्थने ' इति भट्टमल्लः । तथापि प्रवेशार्थकत्वमप्यस्य सुदृष्टं कविलोके ।
धातूनामनेकार्थत्वात् । अतएव महाकवयः " गच्छता पथि विनैव
विमानं व्योम तेन मुनिना विजगाहे " " जगाहे द्यां निशाचर:
इत्यादीनि प्रवेशार्थे प्रायुञ्जत । इयमपि कवयित्री ' रथेन पाताल
गुहामगाहत' इत्यन्यत्र प्रयुयुजे । यदि मन्थनार्थकत्वमेवास्य समर्थनीयं
यथाकथमपीत्यभिनिवेशस्तदानीं 'प्रतिध्वान निभाः' इति किञ्चित्संस्कार
आवश्यकः । अस्मिन् पाठे प्रतिध्वानेन नितरां भान्तीति 'आतोऽनुपसर्गे'
इति कः । ' कर्तृकरणे कृता ' इति समासः । तादृशाः गुहा । जगाहे
व्यलोडयत् ममन्थ अपीडयत् । स्वशत्रूणामाश्रयदायित्वेनेति भावः । भृशं
गुहा: प्रतिदध्वनुस्तन्नादेनेति तात्पर्यार्थः इति वेदितव्यम् । अत्र शात्र
वावासगुहाविनाशोत्सुकृत्वं ध्वनेरुत्प्रेक्ष्यते । उत्प्रेक्षा च वस्तुतोऽसत्यत्व
प्रतिपादकेन निभशब्देन प्रतिध्वानस्यापह्नव इति तदुत्थापितया कैतवा
पह्न त्या समुपजीविता । अतएव तयोस्संकरः ॥
भूम्याकाशसर्वतोव्यापित्वकथनानन्तरं पातालमप्याक्रान्तं तेनेति
- 208
वर्णयति
-
-
""