This page has not been fully proofread.

चतुर्थ सर्गः
 

 
"
 
अन्तः अवधिः कल्पान्तः प्रलयः । • संवर्तः प्रलयः कल्पः क्षयः कल्पान्त
इत्यपि ' इत्यमरः । तस्मिन् उद्भ्रान्तः परिभ्रमन् नृत्यन्नित्यर्थः ।
उत्पूर्वाद् भ्रमेः क्तः । 'अनुनासिकस्य क्विज्झलो ' रिति दीर्घः । तथा
विधः । चण्डया: पार्वत्या ईश: भर्ता चण्डीश' । ' चण्डेश्वर' इत्येव
पाठ इति केचित् । ' महाकालनिकेतनेश्वरस्य देवस्याभिधानं
चण्डेश्वर इति । रौद्राकारत्वाच्चण्डेश्वरपदं रुद्रमभिधत्त इतिवा । पुण्यं
यायास्त्रिभुवनगुरोर्धाम चण्डेश्वरस्य ' इत्येव कालिदासीयेऽपि साधुः
पाठ इति ते वदन्ति । तस्य डमरु : वाद्यविशेषः । ' वाद्यप्रभेदा डमरुमड्डु,
डिण्डिमझर्झराः ' इत्यमरः । तस्य ध्वानः रवः । ' शब्दो निनादनिनद
ध्वनिध्वानरवस्वनाः ' इत्यमरः ।
डामर:
स इव
भयंकरः ।
तद्ध्वनिः स शब्दः । कर्ता । वियत् आकाशः स एव अध्वा मार्ग:
तस्मिन् आकाशवीथ्यामित्यर्थः । 'वियद्विष्णुपदं वापि पुंस्याकाशविहायसी'
इत्यमरः । गम्भीर मन्द्रः उच्चस्तरस्सन् । उदजृम्भत व्यजृम्भत सर्वत्र
व्यापदित्यर्थः । प्रलयसमये भैरवाकारेण रुद्रस्समुद्धतं नटन् डमरुं वादयंश्च
लोकान् संहरतीति पुराणेषु प्रसिद्धम् । रणभेरीध्वनिरयं भयंकरतया
प्रवृत्तस्सन्नाकाशमप्याचक्रामेति सारांशः । अत्र लुप्तोपमालङ्कृतिः ।
 
J
 
.
 
ध्वनेरस्य भूम्याकाशव्याप्तिमुक्त्वा गुहाप्रवेशेन सर्वतोव्यप्तिमस्य
 
कथयति
 
-
 
207
 
प्रायो भयदुतामित्त्र पदविध्वंसनोत्सुकः ।
 
स जगाहे प्रतिध्वान निभादवनिभृद्गुहाः ॥ ॥॥
 
प्राय इति ॥ सः पूर्वं वर्णितो भयंकरो रणभेरीध्वनिः ।
भयेन भीत्या । हेतौ तृतीया । प्राणभयस्समुपस्थित इति हेतोरित्यर्थः ।
द्रुतानि प्राणरक्षणाय यथेच्छं गतानि । "जीवन् भद्राणि पश्य" तीति
न्यायादिति भावः । द्रु गतै - कर्तरि क्तः । तादृशि अमित्त्राणि
दुर्हृदः शात्रवाः तेषाम् पदानि स्थानानि निवासप्रदेशा: गुहा इत्यर्थः ।