This page has not been fully proofread.

206
 
मधुराविजये
 
पटहादिवादनसाधनेन । करणभूतेन ।
 
सारिका च सा' इति शब्दार्णवः । अभिहतः
 
द्वयोस्तु कोणो
 
"
 
कोणाघातस्स उच्यते ॥
 
(
 
वादितः ।
 
वीणादेर्वादनं
 
'कोणाभि
 
हतः' इत्यनेन 'कोणाघातो' गम्यते । कोणाघातं प्रति
 
माह " ढक्काशतसहस्राणि भेरीशतशतानि च । एकदा यत्र
 
-
 
भरत एव
 
हन्यन्ते
 
इति । रणस्य युद्धस्य । ताद षष्ठी ।
युद्धार्थमित्यर्थः । निर्याणम् अध्वनिर्गम: प्रस्थानम् दण्डयात्रेति यावत् ।
'निर्याणं वारणापाङ्गदेशे मोक्षेऽध्वनिर्गमे '
मोक्षेऽध्वनिर्गमे ' इति मेदिनी । तस्य
दुन्दुभिः भेरी । पूर्ववत् षष्ठी । रणभेरीत्यर्थ: । 'भेर्यामानकदुन्दुभी '
इत्यमरः । मन्दरस्य मन्थाचलस्य । कर्तरि षष्ठी । संघट्टः संघर्ष:
संमर्द : मन्दरकृतमथनमिति यावत् । तेन क्षोभितम् सञ्चालितम् ।
क्षुभ सञ्चलने-इत्यस्माण्ण्यन्तात् क्तः । क्षोभवत्कृतमिति वा । ध्वनितमिति
यावत् । ( तादृशम् ) अम्भोधिमण्डलम् समुद्रसमूहः सप्त समुद्रा
इत्यर्थः । तदिव अम्भोधिमण्डलम् यस्य तादृशस्सन् । ' सप्तम्युपमान
पूर्वपदस्योत्तरपदलोपच' इत्युत्तरपदलोपः । रराण दध्वान । रण
शब्दे – लिट् । रणभेरीयम् मन्दरक्षुभितसागराननुकुर्वाणा पुरतोभा
विनं शत्रुविजयं संसूचयन्ती मनागाहताप्यभ्यधिकं ररावेति भावः ।
अन रणभेरीध्वनिरयं मन्दरमथितसागरध्वनिमनुकरोतीत्युपमया पुन
स्सागरमथनेन सागर महाक्षोभो जात इव संभाव्यत इत्युक्षा ध्वन्यत
इत्यलङ्कारेणालङ्कारध्वनिः ॥
 

 
पूर्वं ध्वनेः भूमौ सर्वत्र व्याप्तिमुक्त्वा सांप्रतमाकाशव्याप्तिमपि
तस्य कथयति
 
कल्पान्तोद्भ्रान्त चण्डीश डमरुध्वानडामरः ।
उदजृम्भत गम्भीरो वियदध्वनि तद्ध्वनिः ॥ ॥ 4 ॥
कल्पान्तेति ॥ कल्पस्य ब्रह्मणो दिवसपरिमितस्य कालस्थ