मधुराविजयम् /340
This page has not been fully proofread.
40]
चतुर्थ सर्गः
(
विहायेति ॥ सः राजकुमारः । निद्राम् शयनम् । स्यान्निद्रा
शयनं स्वापस्स्वप्नसंवेश इत्यपि ' इत्यमरः । देहलीदत्तदीपन्यायेन विधि
वदित्यत्रापि संबध्यते । विधिवत् यथाशास्त्रम् । विधिशब्दात्तदर्हमिति
वतिः । विहाय परित्यज्य तूर्यघोषादिभिर्मङ्गलवाद्यैः प्रबुध्येत्यर्थः । यथाह
राजधर्मप्रकरणे याज्ञवल्क्य
"संविशेत्तूर्यघोषेण प्रतिबुध्येत्तथैव च "
इति । विधिवत् यथाविधि । अह्नः मुखमिव अहर्मुखम, प्रभातम् प्रातः
काल: । ' प्रत्यूषोऽहर्मुखं कल्यमुष प्रत्युषसी अपि ' इत्यमरः । तत्र क्रियाः
कृत्यानि तत्कालविधेयानि कर्माणि संध्यावन्दनादीनि । निमिताः विर
चिता: आचरिता: अहर्मुखक्रियाः येन तथोक्तः । स्वविहितकर्मा
नुष्ठानवान् सन्नित्यर्थ: । "संध्यामुपास्य शृणुयाच्चाराणां गूढभाषितम् ।
गीतनृत्यैश्च भुञ्जीत पठेत्स्वाध्यायमेव च " इति । राज्ञां संध्याद्याचरणस्य
विहितत्वादिति भावः । सेनायाः स्वसैन्यस्य सन्नहनाय व्यूहादिभिः
सज्जीकरणाय । संपूर्वन्नहतेभीवे ल्युट् । पृतनाया: सेनायाः अध्यक्षान्
तथोक्तान, दण्डनायकानित्यर्थ: । 'पृतना तु स्त्रियां सेनामात्रसेनाविशेषयोः'
इति मेदिनी । आदिक्षत् नियोजयामास । आङ् पूर्वद्दिशतेर्लुङ् । 'शल
इगुपधा' दिति क्सः । षत्वादि । सैन्याध्यक्षान् विविधान् कृत्वा तत्र
तत्र सेनाकार्याण्यवेक्षितुं तांस्तान नियुज्य जैत्रयात्रायै सन्नद्धं कुरुत
बलमित्यादिदेश कुमार इति तात्पर्यार्थ: । अत्र मनु' - " अध्यक्षान
विविधान कुर्यात्तत्र तत्र विपश्चितः । तेऽस्य सर्वाण्यवेक्षेरन नृणां
कार्याणि कुर्वताम्" इति ॥
।
-
205
जैत्रयात्रार्थस्सेनासन्नाहो वर्ण्यते । तत्र च रणभेर्याः गम्भीर
स्वनो भाविविजयसूचक इति स चतुर्भिश्लोकैरित आरभ्य प्रकथ्यते -
अथ मन्दरसंघद्र क्षोभिताम्भोधिमण्डलः ।
रराण कोणाभिहतो रणनिर्याणदुन्दुभिः ॥
अथेति ॥ अथ राजाज्ञासमनन्तरमित्यर्थः । कोणेन सारिकया
11 3 11