This page has not been fully proofread.

मधुराविज़ये
 

 
भासयितुं प्रभवति अयं तु स्वतेजसा त्रीन् लोकानपीति निरुपमानो
ऽयं दीप इति भावः । अतएव भगवति - भगम् माहात्म्यमस्यास्तीति
भगवान् 'भगं श्रीक़ाममाहात्म्य वीर्ययत्नार्क कीर्तिषु ' इत्यमरः । तस्मिन् ।
भानूनाम् किरणानाम् माला परम्परा अस्मिन्नस्तीति तथोक्तः ।
सर्वधनादित्वादिनिः । 'भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम्
इत्यमरः । तस्मिन् अंशुमालिनि सहस्रांशी सूर्ये इत्यर्थ: । 'कर्मसाक्षी
जगच्चक्षुरंशुमाली त्रयीतनुः' इति सूर्यपर्यायेष्वमरः । तस्मिन् उदिते
उदयमाने सूर्योदये जाते इत्यर्थः । उत्पूर्वादिण: आदिकर्मणि क्तः।
(सः पृतनाध्यक्षान् सेनासन्नहनाय आदिक्षदित्युत्तर श्लोकेन सम्बन्धः ।)
अत्र राजीववनजीवनदायिनीत्यनेन पद्मिनीप्राणनाधत्वमस्य स्फुरति ।
तेन तदानीं सर्वत्र पद्मसौगन्ध्यातिशयव्याप्तिः लोकामोदश्चावगम्यते ।
'लोकैकदीप' इत्यनेन लोकबान्धवत्वमस्य प्रस्फुरति । तेन तमोपहारकत्वं•
तदानीमेव लोकानां प्रबोधश्च ज्ञायते । भानुमालिनीत्यनेन सहस्रांशुत्वं
दिनकरत्वं चास्य ध्वनति । तेन तदानीं दिक्षु तत्किरणप्रसारेण
तमोऽपसरणं क्रमेण कालमानविज्ञानं च बोध्यते । भगवतीत्यनेन
 
(
 
आदित्यो वायं प्रत्यक्षो देव' तेति प्रत्यक्षदेवतात्वम्, सर्वदेवताभ्यो
 
204
 
(
 
17
 
वैशिष्ट्यं चास्य व्यज्यते । तेन तदानीं तदा राधनपरत्वं लोकस्याव
गम्यते । इत्थं प्रातः कालवर्णनात्र सुस्पष्टं प्रतीयते । अतएवात्र
गाम्भीर्यं नाम काव्यगुणः । " ध्वनिमत्ता तु गाम्भीर्यम् ॥ इति तल्ल

क्षणात् । अस्मिन् सर्गे वृत्तमनुष्टुप् । तल्लक्षणं तु पूर्वमुक्तम् । सर्गोऽयं
कम्पराजस्य जैवयात्रया समारब्धः परिसमाप्यते चम्पराजवर्धन साकं
कम्पराजराज्य प्रतिष्ठापनया ॥
 
सेनासन्नाहाय राजाज्ञां ब्रूते
 
4
 
i.
 
विहाय निद्रां विधिव निमिताहर्मुखक्रियः ।
आदिक्षत् पृतनाध्यक्षान् सेनासन्नहनाय सः ॥ ॥