This page has not been fully proofread.

FISH
 
तृतीयसर्गः
 
201
 
FIF
 
"
 
'यस्येति'
 
नन्तरमिति ज्ञायते । सरोजम् पद्ममिव मुखम् यासां ताः सरोज
मुख्यः सौन्दर्यवत्यः स्त्रिय इत्यर्थः । ता एव सख्यः सहचर्य : सहाय
भूताः यस्य । तादृशस्सन्ं तत्सहितो भूत्वेति यावत् । 'गोस्त्रियो
रुपसर्जन' स्येति ह्रस्वः । 'राजाहस्सखिभ्य' इति टच् ।
चेत्यकारंलोपः । सुखी सौख्यवान् संप्राप्तसुखानुभूतिस्सन्नित्यर्थः । व्यर
मत अक्रीडत् विजहार क्रीडासुखमन्वभूदित्यर्थः । विपूर्वाद्रमेतेः कर्तरि
लङ् । अत्र 'व्याङ्परिभ्यां रम ' इति परस्मैपदं न्याय्यम् । आत्मने
पदप्रयोगस्तु प्रौढोक्तिमूलक एवे । राजधर्मकथनावसरे मनुरेवमाह -
भुक्तवान् विहरेच्चैव स्त्रीभिरन्तःपुरे सह । विहृत्य तु यथाकालं
पुनः कार्याणि चिन्तयेत् " इति । वृत्तं तु हरिणी । "भवति हरिणी
न्सौ म्रौ स्लौ गो रसाम्बुधिविष्टपैः" इति लक्षणात् । विपरिणतं
वृत्तं सर्गसमाप्ति सूचयति ॥
 
-
 
इति
 
श्रीगङ्गादेव्या विरंचिते
 
मधुराविजयनाम्नि वीरकम्परायचरिते
 
जैत्रयात्राऽऽदेशो नाम
तृतीय सर्गः
 
इतीति ॥ शेषं पूर्ववत् । तृतीयः त्रयाणां पूरणः इति ।
 
" त्रेस्सम्प्रसारणं च ' इति तीयः सम्प्रसारणं च । सर्गः इति समाप्तः
इति तु विशेषः ॥