This page has not been fully proofread.

तृतीयसर्गः
 

 
अथेति ॥ अथ कम्पराजगृहप्रवेशानन्तरमित्यर्थः । दिनस्य दिवसस्य
ईश्वरः अधिपः अहर्पतिस्सूर्यः इत्यर्थः । उरसा गच्छन्तीति उरगाः
नागाः । ' उरसो लोपच ' इति उरसि गमेर्ड: । सलोपश्च । तेषामधि
पस्य स्वामिनः आदिशेषायेत्यर्थः । संप्रदानस्य शेषत्वविवक्षायां षष्ठी ।
भवतीति भावी । तम् अचिरकालादेव तुरुष्कवधेन सम्भविष्यन्तम् ।
भुवः भूमेः भरः भारः तस्य । अपगमम् अपसरणम् । अपपूर्वाद् गमे
'ग्रहवृदृनिश्चिगम ' श्चेति भावेऽप् । लोकोपद्रवकारिभिर्दुष्टैभूमे र्भार,
तन्नाशेन तद्भारापगमश्च पुराणादिषु श्रूयत इत्येवमुक्तिः । निवेदयिष्यन्
विज्ञापयिष्यन् निबोधयिष्यन्निति यावत् । इवेति सम्भावनायाम्
एवं सम्भाव्यमान इत्यर्थ: । गाढम् अतिशयितम् रंहः वेगः यस्य
तेन । अतिशीघ्रगामिनेत्यर्थ: । 'रंहस्तरसी तु रयस्स्यदः ' इत्यमरः ।
रथेन स्यन्दनेन । करणभूतेन । पातालम् नागलोक तदेव गुहा दरी
गुहेव । तस्य दुर्गमत्वात् तत्र प्रविष्टस्य दृगगोचरत्वाच्चैवमुच्यते ।
अगाहत प्राविशत् । पश्चिमसमुद्रं द्वारीकृत्येति शेषः । 'गाहू - विलोडने ' .
इत्यस्माल्लङ् । महात्मानो लोकबान्धवास्स्वयं महादुःखमनुभूयापि पर..
सुखसम्पादनाय प्रयतन्त इति लोकबान्धवोऽयमप्येवं प्रावर्ततेति गम्यते ।
सूर्योऽस्तमगच्छदिति परमार्थ: । पाताले सहस्रफणामण्डलैर्भूमि बिभ्रत
इशेषस्य भूभारापनोदवार्ता सुखं जनयिष्यतीति धिया तस्य तमभि
धातुं सूर्यो रसातलं प्रविवेशेति सूर्यकृतपातालगमनस्य भूभारापनो
दार्थत्वसंभावनात्रेति क्रियोत्प्रेयम् ॥
 
?
 
199
 
अथ नृपसुतस्सान्ध्यं निर्माय कर्म सभां गतः
क्षणमिव गुरोराज्ञां राज्ञां गणाय निवेद्य सः ।
विमतविजयव्यग्रोत्साहान् विहाय गृहाय ता
नरमत सुखी शय्यागेहे सरोजमुखीसखः ॥
 
1147 11
 
अथेति ॥ अथ अनन्तरम् सूर्ये अस्तमिते इत्यर्थः । नृपसुतः