This page has not been fully proofread.

मधुराविजये
 
तैः (करण
 
तत इति ॥ ततः तस्मिन् । सार्वविभक्तिकस्तसिः । स्वोपदेशो
त्तरकाले इत्यर्थः । गुरुणा पित्रा । कर्त्रा । महान् अर्हः मूल्यम्
येषां तैः । अनर्धेः महाराजोचितैरित्यर्थः । स्वस्य आत्मनः
वेभ्यः अङ्गेभ्यः अवतारितानि अवारोपितानि स्वस्थानेभ्यः
रितानि विभूषणानि रत्नाङ्ग लीयकाद्या अलङ्कङ्कृतयः ।
भूतैः) प्रसाधितः अलङ्कतः । आत्मनोऽनन्तरं भविष्यति महाराजो
ऽयमेवेति सर्वानवगमय्य तं सोत्साहं कर्तुमिति भावः । प्रकृष्टं मनः
यस्य प्रमनाः प्रहृष्टमानसः सोत्साह इति यावत् । सभायां वीरपुरुष
कृता समुचितेयं वीरपूजा वीरमुत्साहयेदिति किमु वक्तव्यमिति भावः ।
'हर्षमाणो विकुर्वाण' प्रमना हृष्टमानसः' इत्यमरः । रामायणेऽपि
युद्धगमनोद्यतं कुम्भकर्णं रावण एवमेव संभावयामासेति महाराजभिः
क्रियमाणा चिरन्तनी महती वीरपूजेयमिति ज्ञायते । परे उत्तरे
भाविनीत्यर्थः । तादृशे अह्नि दिने श्व इति यावत् । जेतुः अयम्
जैत्र' जयशीलः अवश्यं विजयसाधक इत्यर्थः । ' तस्येद ' मित्यण् ।
तादृक् निर्गमः यात्रा जैत्रयात्रेति यावत् । निर्धारितः दैवज्ञैस्समु
चित इति निर्णीतः जैत्रनिर्गमः यस्य स तथोक्तः । तादृक् सन् ।
निजाधिवासम् स्वगृहान् । समासदत् संप्राप । 'सम् आङ्' इत्युप
सर्गद्वयपूर्वात् सदेः लुङ् । पित्रा सत्कृत कम्पराट् ग्रहादिबलं सम्य
क्परीक्ष्य समयविद्भिर्देवज्ञैः श्वो जैत्रयात्रेति बोधितशुभसमयस्सन्
स्वसदनं सर्वेरनुज्ञातः प्रविवेशेति पिण्डीकृतोऽर्थः ॥
 
सूर्यास्तमयोऽत्र वर्ण्यते
 
198
 
-
 
अथोरगाणामधिपस्य भाविनं
 
भुवो भरस्यापगमं दिनेश्वरः ।
निवेदयिष्यन्निव गाढरंहसा
रथेन पातालगुहामगाहत ॥
 
अवय
 
अपसा
 
॥ 46 ॥