मधुराविजयम् /327
This page has not been fully proofread.
मधुराविजये
तदेवमिति ॥ तत् यत एवं बलादिसमृद्धिस्तव तत इत्यर्थः ।
एवम् इत्थम् उक्तप्रकारेण । उज्जृम्भितम् विजृम्भितम् विशेषेण
प्रकाशमानम् भूरि अधिकम् पौरुषम् पुरुषप्रयत्नः सहायसम्पदादि
यस्य तथोक्तः । तादृशस्सन् । उपप्लुतानि उपप्लवं प्राप्तानि समुप
लब्धदुःखानीत्यर्थः । तादृशि अशेषजगन्ति समस्तभुवनानि येभ्यः
तेषु अद्रिषु पर्वतेषु । रोषण: क्रोधनः क्रोधवान् । रुष रोषे
इत्यस्मात् 'क्रुध मण्डार्थेभ्यश्च '
इति कर्तरि युच् ।
वृषा
इन्द्रः ' वासवो वृत्तहा वृषा' इति इन्द्रपर्यायेष्वमरः । शाताम्
तेजिताम् निशिताम् ' अथ निशितक्ष्णुतशातानि तेजिते ' इत्यमरः ।
शो - तनूकरणे क्तः । 'शाच्छोरन्यतरस्या' मितीत्त्वविकल्पः । शतम्
कोटयः धाराः अस्य शतकोटिम् वज्रायुवमिव । वैरिषु शत्रुषु
जगदुपद्रवकारिप्वित्यर्थः । पराक्रमम् विक्रमम् स्वशौर्यम् स्वसामर्थ्यं
वा। पराक्रमस्स्यात्सामर्थ्य विक्रमोद्यमयोरपि ' इति मेदिनी ।
कर्तुम् कार्यकारिणं क़र्तुम् प्रयोक्तुमिति यावत् । त्वम् ।
त्वम् । अर्हसि
युज्यसे प्रभवसीत्यर्थः । त्वत्पराक्रमप्रदर्शनस्य समुचितः कालः प्राप्त
इति भावः । उपमा अलङ्कारः । उपमानं तु पुराणप्रसिद्धम् ॥
192
"
-
उपेत्य तुण्डीरमखण्डितोद्यमः
प्रमथ्य चम्पप्रमुखान् रणोन्मुखान् ।
प्रशाधि काञ्चीमनुवर्तित प्रजः
पतिनिधीनामलकापुरीमिव ॥
उपचितशक्तेः कृतमूलराष्ट्ररक्षकस्य शत्रोरवस्कन्दनाय यात्रा
यानम् । तच्च पञ्चविधम् । "विगृह्य यानम् । सन्धाय यानम् ।
सम्भूय यानम्। प्रसङ्गयानम् । उपेक्ष्य यानं " चेति । तत्र
प्रकृतयानस्य अन्तरोपस्थितेऽपि यद्यानं तत्प्रसङ्गयानम् । तद्व्याचष्टे
एक
-
-
-
॥ 41 ॥