This page has not been fully proofread.

तृतीय सर्ग:
 
रीपवन्ति कृतानि अन्तराणि मध्यप्रदेशाः येषु ते तथोक्ताः । औन्न
त्यभाजो महान्तो मदगजा उन्नतानि द्वीपानीव तदन्तरा राजन्त
इत्यर्थः ।
'द्वीपविशेषः' इत्यनेन पर्वता इव स्थूला उन्नताश्च त
इति तेषामुत्तमत्वं गम्यते । उग्राणि भयङ्कराणि दर्शनमात्रेणैव
भीतिजनकानि आयुधानि खङ्गादियुद्धसाधनानि तान्येव नकराजयः
कुम्भीरश्रेणयः येषु ते । 'ग्राहोऽवहारो नॠस्तु कुम्भीर: ' इत्यमरः ।
सन्निहितानां सद्य एव प्राणोपद्रवकारित्वेन भयंकरत्वादायुधानि नका
णीत्युच्यन्ते । तादृशाः बहुला: बहवः विस्तृताः दुरधिगमपाराः ।
अनन्ताश्चेति गम्यते । बहुलोऽग्नौ कृष्णपक्षे पुमांस्त्रिष्वसिते बहौ'
इति नानार्थ रत्नमाला । बलानि सैन्यानि तान्येव अब्धयः समुद्राः ।
ते भवन्तम् त्वाम् । नित्यम् सदा क्षणमप्यविहायेत्यर्थः । सहस्रमेव
सहस्रशः अनन्तास्सन्तः शतं सहस्रमयुतं सर्वमानन्त्यवाचकम् इत्य
भियुक्ताः । स्वार्थे शस् । एकां कपिलामेकैकशस्सहस्रकृत्वो दत्त्वा
इति भाष्यव्याख्यावसरे शसन्तस्य प्रत्येकमित्यर्थंकत्वेन कैयटे व्याख्या
तत्वात् । भजन्ति सेवन्ते त्वद्वशे नित्यं तिष्ठन्तीति यावत् । एता
दृशबलोपचयवतस्तव दुस्साधमेव नास्तीति भावः । श्लोकद्वयेन वर्णितौ
सुहृदुपचयबलोपचयौ शिष्टानामङ्गानामुपलक्षणविधया संग्राहकावित्व
गन्तव्यम् । अत्र बलादावब्धित्वरूपणाद्रूपकम् । तच्च तुरङ्गादौ
वीचित्वाद्यारोपणात्समस्तवस्तुविषयसावयवं रूपकमिति विवेकः ॥
 
"
 
शक्त्युपचय प्रदर्शनानन्तरं यानमुपदिशति
 
तदेवमुज्जृम्भित भूरिपौरषः
पराक्रमं वैरिषु क़र्तुमर्हसि ।
उपप्लुताशेषजगत्सु रोषणो
वृषेव शातां शतकोटिम द्रिषु
 
-
 
11 40
 
,
 
191
 
}}