This page has not been fully proofread.

मधुराविजये
 
इति यावत् ।
अनेन शात्रवाणां वधेऽवश्यंभाविता प्रतीयते । तापि
तानि स्वनामश्रवणेनैव तापवन्ति कृतानि वैरिमानसानि यैस्ते ।
शत्रुभयङ्करा इत्यर्थः । अनेन सर्वसमर्थत्वं तेषामवगम्यते । त्यक्तः
मदः गर्वः अहङ्कारः यैस्ते । निगर्वचूडामणयः अत्यन्तं विनीता
इति यावत् । एतेन विमृश्यकारित्वं विजितेन्द्रियता च व्यज्यते ।
'मदो रेतसि कस्तूर्या गर्ने हर्षेभदानयोः' इति विश्वः । एवं पुरुष
सम्पदुत्कर्षवतस्तव यातव्यश्शत्रुरवश्यमद्येति भावः । अत्र कामन्दक: -
"प्रायेण सन्तो व्यसने रिपूणां यातव्यमित्येव समादिशन्ति । तथा
विपक्षे व्यसनानपेक्षी क्षमो द्विषन्तं मुदितः प्रतीयात् ॥' इति । स्व
शक्त्युपचय प्रदर्शनार्थमेव पुरुषसम्पद्रूपं पौरुषमुत्तरश्लोकेनानेन च बहुशो
वर्णितमित्यवगन्तव्यम् ॥
 
190
 
"
 
" स्वाम्यमात्यश्च राष्ट्रं च दुर्गं कोशो बलं सुहृत् । परस्परोप
कारीदं राज्यं सप्ताङ्गमुच्यते । इति कामन्दकः । सप्त प्रकृतिषु
सुहृदामुपचयः पूर्वं वर्णितः । इदानीं बलोपचयः प्रस्तूयते -

 
-
 
सहस्त्रशस्तुङ्गतुरङ्गवीचयो
 
मदद्विपद्वीपविशेषितान्तराः ।
 
भवन्तमुग्रायुधनकराजयो
 
भजन्ति नित्यं बहुला बलाब्धयः ॥
 
11 39
 
11
 
सहस्रशः इति ॥ तुङ्गाः उन्नता: तुरङ्गाः अश्वाः त एव
वीचयः तरङ्गा ते येषु तथोक्ताः । महाश्वराजयस्तरङ्गपङ्क्तय इव
असंख्याकास्तत्र चङ्क्रम्यन्त इति भाव: । तरङ्गसाम्येन धवलाश्वास्ते
उच्चैश्श्रवस इवेति व्यज्यते । मदद्विपैः मत्तगजैः द्वीपविशेषितानि
द्वीपविशेषवन्ति कृतानि । द्वीपविशेषशब्दान्मतुबन्तात् तत्करोतीति
ण्यन्तात्कर्मणि क्तः। 'विन्मतो' रिति मतुपो लुक् । अतिशयितान्त