This page has not been fully proofread.

मधुराविजये
 
भावः । त्वया भवता । कर्जा । नितान्तम् अत्यन्तम् । • तीव्रकान्त
 
(
 
नितान्तानि गाढवाढदृढानि च इत्यमरः । चला चञ्चला तटिदिव
क्षणक्षणं चलनशीला । इयम् सन्निहिता इदानीं त्वामाश्रित्य स्थिते
त्यर्थः । लक्ष्मीः राज्यलक्ष्मीः सम्पदिति यावत् । लक्ष्मीस्सम्पत्ति
शोभयो: ' इत्यमरः । यथा येन प्रकारेण । प्रकारवचने थालू । भवद्गुणैः
त्वदीयैस्सुगुणैः बहुविधैरित्यर्थः । अतएव बहुता । गुणलुब्धत्वात्सम्पदा
मिति भावः । अविरतम् अनारतम् अविच्छिन्नमित्यर्थः । क्रिया
विशेषणमेतत् । सततानारताश्रान्तसन्तताविरतानिशम् ' इत्यमरः ।
स्थिरताम् स्थैर्यम् अचाञ्चल्यम् एकत्रैव त्वयि सातत्येन स्थितिमिति
यावत् । लभेत प्राप्नुयात् । सम्भावनायां लिङ् । तथा तेन प्रकारेण ।
विधेयम् आचरितव्यम् त्वया प्रवर्तनीयमिति यावत् । धैयौदार्यादि
सुगुणवतापि भवता तत्तद्गुणयोगक्षेमविधानेन नित्यानपायिनी लक्ष्मी
र्वशीकर्तव्येति सारोंऽशः । नीचाश्रया लक्ष्मीरिति प्रवादस्तु अध
मेणैधते ताव दिति न्यायेन समागतानां समूलं नाशकानां
दुर्योधनादिसम्पदां समवलोकेन सञ्जातः केवलं भ्रममूलक इति भावः ।
कार्यनियोगोऽत्र गम्यते । यथाऽऽह कौटिल्य: । " कार्याणां नियोग
विकल्पसमुच्चया भवन्ति । अनेनैव नान्येनेति
ऽन्येन वेति विकल्पः । अनेन चेति समुच्चयः
मिति श्लोकेन लोकसाधारण्येन समुपदिष्टमर्थं
 
भङ्गयन्तरेण विशेषविधयाऽत्र कथितमिति न पुनरुक्तिशङ्काव

काश: । ' अवधार्य धैर्यतस्त' थेत्यादौ वर्णानां पुनः पुनरावृत्त्या वृत्त्यनु
प्रासश्शाब्दोऽलङ्कारः ॥
 
188
 
"
 
"
 
(
 
नियोगः ।
 
इति ।
 
उपेयुषी
 
कम्पराजं लक्ष्यीकृत्य
 
"
 
इदानीं यानमुपदेक्ष्यन् ' स्वशक्त्युपचये यान
चयप्रदर्शनार्थं सहायसम्पदं तावत्प्रस्तौति -
 
"
 
अनेन वा
 
"
 
मिति शक्त्युप