This page has not been fully proofread.

तृतीयसर्गः
 
कारणजन्मनि भवत्यपि मदुपदेशोऽयं समुपलब्धप्रयोजन एव न त्वज़ा
गलस्तन इव निरर्थकः, रामादिष्वपि तथैव दर्शनादिति निर्गलि
तोऽर्थः । 'शक्नोति पारयति पर्याप्नोति प्रभवत्यपि । ईष्टे प्रगल्भते '
इति क्रियानिघण्टुः ।
राजधर्मकथनावसरे यदाह मनुः - "वृद्धांच
नित्यं सेवेत विप्रान् वेदविदश्शुचीन् । वृद्धसेवी हि सततं रक्षोभि
रपि पूज्यते ॥ तेभ्योऽधिगच्छेद्विनयं विनीतात्मापि नित्यशः । विनी
तात्मा हि नृपतिः न विनश्यति कहिचित् ॥
इति ।
' कार्याणि
विधातुमीशत' इति वाक्यार्थे 'शुद्धया, निरस्तव्यसनानुबन्धया '
इत्यादिपदैरवगतानामर्थानां विशेषणगत्या हेतुत्वमत्रेति काव्यलिङ्गा
लङ्कारः ॥
 
53
 
M
 
-
 
मधुराविजयाय क़म्पराजं नियोजयिष्यमाणो बुक्कभूपतिस्तदङ्ग
तया समुपक्रान्तं स्वोपदेशमुपसंहरति
 
तदेवमात्मन्यवधार्य धैर्यत
 
स्तथा विधेयं भवतापि धीमता ।
यथेयमेक़ान्तचला भवद् गुणै
 
र्लभेत लक्ष्मी स्थिरतामनारतम् ॥
 
37
 
187
 
}
 
तदेवमिति ॥ तत् तस्मात्कारणात् यतो भवादृशामपि पूर्वो
यत्तदिति हेत्वर्थे इति
 
तदिशा गुरूपदेश आवश्यक इत्यर्थः ।
 
चादिगणे गणरत्नव्याख्या । धीरस्य भावः धैर्यम् विवेकः तस्मात् ।
पञ्चम्यास्तसिः । धीरो मनीषी ज्ञः प्राज्ञः ' इत्यमरः ।
 
(
 
आत्मनि
 
मनसि आत्मा कलेबरे
'
 
यत्ने स्वभावे परमात्मनि चित्ते धूतौ
एवम् इत्थम्
च बुद्धौ च परव्यावर्तनेऽपि च ' इति धरणिः ।
नान्य
पूर्वोक्तप्रकारेणेत्यर्थः। अवधार्य निश्चित्य इदं मदिष्टसाधनं
दिति निर्णीयेत्यर्थः । धीमता बुद्धिमता ।
 
स्वतो गुणवतापीति