This page has not been fully proofread.

तृतीयसर्गः
 
तनात्साधुः । सम्पदम् ऐश्वर्यम्
 
राज्यलक्ष्मीमिति
 
गुणा
 
यावत् ।
तेन हेतुना सुगुण
 
नाम् अनुरोधात् अनुसरणेन । हेतौ पञ्चमी ।
जान्भूत्वेत्यर्थः । वृणते हि विमृश्यकारिणं गुणलुब्धास्स्वयमेव
सम्पदः " इति सम्पदां गुणलौभ्यादिति भावः । उपभोक्तुम् अनुभ
स्थापयितुमित्यर्थः ।
वितुम् स्वानुभवयोग्यतया चिरं
असमर्था: । गुणराहित्यादिति
गुणराहित्यादिति भावः । चपलस्य कर्म चापलम् ।
 
अक्षमाः
 
वल्य:
 
इन्द्रियलौल्यम् अविजितेन्द्रियतेति यावत् । अन्यत्र स्वभावसिद्धबहु
विधचेष्टाभिरिति च गम्यते । कपिचेष्टा इति प्रसिद्धेः ।
'कुशल
चपलनिपुणपिशुनकुतूहलक्षेत्रज्ञा युवादिषु ब्राह्मणादिषु च पठयन्ते '
इति युवादित्वादण् । तेन करणभूतेन । मुखेषु येषां ते
वलीमुखाः कपयः । — कपिप्लव ङ्गप्लवगशाखामृगवलीमुखा: ' इत्यमरः ।
पुष्पमयीम् पुष्पाधाराम् पुष्पगुम्फितामित्यर्थः । प्रथमासमर्थादधिकरणे
प्रत्यय इत्यर्थान्तरव्याख्यायां तत्प्रकृतिवचने' इति मयट् । तादू
शीम् स्रजम् मालामिव । गोबलीवर्दन्यायेन शक्तिसंकोचात् सक्छब्दः
केवलमालापरः । श्यन्ति हिंसयन्ति । हस्तादिना संपेष्य संपेष्य
नाशयन्तीत्यर्थः । श्रथ श्लथ हिंसागत्योरित्यस्माण्णिच् । घटादित्वात्
'णौ मिता' मिति ह्रस्वः । कपिहस्तगता स्रगिव दुर्विवेकिसंगता
गुणवता
सम्पत्तदनुभूतिद्वरा नश्यत्यचिरादेवेति तां वशीक राज्ञा
" त्वयाऽत्म
भाव्यं नतु व्यसनिनेति सारोंऽशः । कस्मिंश्चन संदर्भ
हस्तेन मही मदच्युता मतङ्गजेन स्रगिवापवर्जिता " इत्याह भारविः ।
अलङ्क तिरुपमा ॥
 
"
 
-
 
185
 
गुरूपदेशोऽयं नैसर्गिकविनयसम्पदो दूरीकृतबुद्धिदोषस्य महापुरुष
स्यापि प्रयोजनसम्पाद्येवेति प्रतिपादयति
 
-
 
भवादृशास्तु स्वत एव शुद्धया
गुरूपदेशैर्गुणितप्रकाशया ।