This page has not been fully proofread.

पीठिका
 
क़ाव्यम् - कवयित्री
 
कवीन्द्रा बहवस्स्वप्रतिज्ञां बहुधा प्रदर्शयन्तो व्यरचयन् महा
काव्यानि सांस्कृते काव्यजगति । तत्र विदुषीमणयोऽपि स्वरचनाशिल्प
नैपुणेन पुरुषा इत्र प्रगल्भमानास्स्वयशश्चन्द्रिकाभिरलमकुर्वन् दिशो दश ।
• पुरुषवद्योषितोऽपि कवी
अतएव राजशेखरस्स्वकाव्यमीमांसायां
भवेयुः, संस्कारो ह्यात्मनि समवैति न स्त्रैणं पौरुषं वा विभाग
मपेक्षते । श्रूयन्ते दृश्यन्ते च राजपुत्रो महामात्रदुहितरो गणिकाः
( काव्यमीमांसा १०
 
}
 
कौतुकिभार्याश्च शास्त्रप्रहतबुद्धयः कवयश्च
 
क्रीस्तु A. D. नवमशताब्दीयैतद्ग्रन्थोदाहर
 
"
 
अध्यायः ) इत्याह ।
 
णैश्च ज्ञायते तथाविधास्त्रियो बह्वचस्सन्तीति । राजशेखरकवेग्र हि
ण्यवन्तिसुन्दरी महाकवि विदुषी मणिश्चेति चरित्रपरिशीलनेन विज्ञायते -
बाहुणकुलमौलिमालिका राजशेखरकवीन्द्रगेहिनी ।
 
भर्तु : कृतिम
 
वन्तिसुन्दरी सा प्रयोजयितुमेतदिच्छति " इति कर्पूरमञ्जरी भणति ।
एवमपि तद्ग्रन्था इदानीं नैवोपलभ्यन्त इति कालप्रवाहे नष्टं
तत्काव्यजातमशेषमित्यनुमीयते । एतदुत्तरकालेऽपि भारती, विज्झला,
मोहनाङ्गी, वरदाम्बिका, रामभद्राम्बेत्येवमाद्याः कवयित्र्यो 16, 17, 18
शताब्दीषु लब्धप्रतिष्ठा वर्तन्ते । तिरुमलाम्बा नाम कवयित्री वर
विवाहकथां व्यरचयन्महाकाव्यं
दाम्बिकाया अच्युतदेवराजस्य च
'वरदाम्बिकापरिणय ' मित्येवंनाम्ना । रामाम्बिकानाम्नी
 
काचन
 
संस्कृतीचकार रघुनाथरायविरचितमान्ध्ररामायणं सर्वम् ।
की० श० १८ शताब्यां नाचमाम्बा स्वपितुरेलोश्वरोपाध्यायादधिगतसर्व
शास्त्रार्था वैदुष्यं महदवाप्य राजास्थानीषु शास्त्रगोष्ठयां विद्वद्वरान्