This page has not been fully proofread.

मधुराविजये
 
प्राप्नुवन्ति । स्वयत्नमन्तरैव स्वसंकल्पितार्थसिद्धौ मन्दोऽपि न तदर्थं
श्राम्येदिति भावः । यत एवं स्वस्थ स्वसम्पदश्च नाशमूलानि व्यस
नानि, ततश्श्रेयस्कामेन प्रभुणा दूरतः परिहर्तव्यान्येतानीति परमार्थः।
अत्र मनुः " दश कामसमुत्थानि तथाष्टौ क्रोधजानि च
व्यसनानि दुरन्तानि प्रयत्नेन विवर्जयेत् ॥ मृगयाऽक्षो दिवास्वापः
'परिवाद स्त्रियो मदः । तौर्यत्रिकं वृथाट्या च कामजो दशको
गणः ॥ पैशुन्यं साहसो द्रोहः ईर्ष्यासूयार्थदूषणम् । वाग्दण्डजं च
पारुष्यं क्रोधजोऽपि गणोऽष्टकः ॥ द्वयोरप्येतयोर्मूलं यं सर्वे कवयो
विदुः । तं यत्नेन जयेल्लोभं तज्जावेतावुभौ गणौ ॥ पानमक्षा स्त्रिय
श्चैव मृगया च यथाक्रमम् । एतत्कष्टतमं विद्याच्चतुष्कं कामजे
गणे ॥ दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे । क्रोधजेऽपि गणे
विद्यात् कष्टमेतत्त्रिकं सदा ॥ सप्तकस्यास्य वर्गस्य सर्वत्रैवानुषङ्गिणः ।
पूर्व पूर्वं गुरुतरं विद्याद्व्यसनमात्मवान् ॥ व्यसनस्य
व्यसनं कष्टमुच्यते । व्यसन्यवोऽधो व्रजति स्वर्यात्यव्यसनी नृतः ॥
च मृत्योश्च
कामजेषु प्रसको हि व्यसनेषु महीपतिः । वियुज्यतेऽर्थधर्माभ्यां क्रोध
जेष्वात्मनैव तु ॥" इति । श्लेषानुप्राणितं परम्परितरूपकमलङ्कारः ॥
 

 

 
184
 
उपेयुषों पुण्यवशेन सम्पदं
 
गुणानुरोधादुपभोक्त मक्षमाः ।
स्वचापलेन श्लथयन्ति दुधियो
वलीमुखाः पुष्पमयीमिव स्रजम् ॥
 
35 ॥
 
उपेयुषीमिति ॥ दुष्टा धीः येषां ते दुधियः दुष्टबुद्धयः
उत्पथगामिन इत्यर्थः । पुण्यवशेन जन्मान्तरकृतसुकृताधीनतया । नतु
स्वपौरुषेणेति भावः । त्रिष्वधीने वशो वाञ्छाप्रभुत्वाधीनतासु ना'

इति नानार्थ रत्नमाला । उपेयुषीम् प्राप्ताम् । उपपूर्वादिणो लिट:
क्वसि ' उगित ' श्रेति ङीष् । ' उपेयिवाननाश्वाननूचानश्च ' इति निपा