This page has not been fully proofread.

37)
 
तृतीयसर्गः
 
विषये स्यादुपद्रवे' इति मेदिनी । दुःखेन उत्सहते इति दुरुत्सहः
सोढुमशक्यः । ' ईषद् दुस्सुषु कृच्छ्राकृच्छ्रार्थेषु ' इति खल् । तादृशेन
दण्डेन शिक्षया प्रसह्य बलात्कृत्य दुनोति पीडयति । सः ( दुःख
करा मतिः यस्य ) दुर्मतिः । स्वाश्रयनाशे स्वनाश इत्यजानानोऽवि
वेकीत्यर्थः । वृक्षम् आरुह्य अधिष्ठाय वृक्षे स्थित्वेत्यर्थः । मूलस्य
स्वाश्रयवृक्षस्कन्धस्य उद्दलनाय छेदनाय वृक्षमूलं छेत्तुमित्यर्थ कुठा
रस्य परशोः उत्क्षिप्तस्येत्यर्थ: । पातनम् निक्षेपणम् परशुना छेदन
मिति यावत् । पतनमेव पातनम् । प्रज्ञादित्वादण् । करोति आच
रति । स्वाश्रयवृक्षनाशे स्वनाशमसम्भावयन् जन इव स्वराष्ट्रनाशे
तन्मूलकनिजसम्पन्नाशेन स्वस्य नाश इत्यविदन् राजा समूलनाशं
नश्यति । अतस्तीक्ष्णदण्डेन स्वामिना न भवितव्यमित्युपदिश्यते ।
अत्र मनु: "स्वराष्ट्रे न्याय्यवृत्तस्स्यात् भृशदण्डश्च शत्रुषु " इति ।
-
अत्र वाक्यार्थयोरैक्यारोपमूला निदर्शनालंकृतिः ॥
 
अर्थदूषणं निन्दति –
 
-
 
मदादपात्रेषु ददाति मन्दधी
र्धनानि धर्माधिकसाधनानि यः ।
निपात्यते तेन मखक्रियोचितं
 
हविश्चितासद्मनि कृष्णवर्त्मनि ॥
 
33
 
181
 
मदादिति ॥ यः राजा । धर्मस्य सुकृतस्य ' स्याद्धर्ममस्त्रियां
पुण्यश्रेयसी सुकृतं वृषः' इत्यमरः । अधिकसाधनानि प्रकृष्टोपकार
काणि । तदर्थमेव सृष्टानीति भावः । धनानि सम्पदः ( कर्म )
मन्दधी: अपटुबुद्धिः । यतो विपरीतं गृह्णाति यतो वा विरुद्धं प्रव
र्तते अतो विषयग्रहणेऽपटुरस्य बुद्धिरित्येवमुच्यते ।
 
"
 
निर्भाग्या मन्दास्स्युः
 
इत्यमरः । तादृशस्सन् । मदात्
 
(
 
मूढाल्पापटु
 
हर्षात् । न