This page has not been fully proofread.

मधुराविजये
 
विशिष्टः स्फूर्जथुः विस्फूर्जथुः अतिशयितो वज्रनिर्घोषः । 'स्फूर्जथुर्वत्र
निर्घोष ' इत्यमरः । 'टुओ स्फूर्जा वज्रनिर्घोषे' इत्यस्मात् ट्वितोऽथुच् ।
तद्युतानि गर्जितानि मेघध्वनयः यस्मिन् तथोक्तः । तथाभूतस्सन् ।
यद्वा । 'स्फूर्ज़थुर्वत्र निष्पेष' इति पाठान्तरम् । निमेष शब्दस्संचट्टमात्र
पर इति व्याख्यान्तरम् । विस्फ़र्जथु: विशेषेण अशनिसंघट्टः तस्मात्
प्रभवन्ति गजितानि यस्मिन्निति वा । तादृक् सन् । भीषण: भय
जनकः भयंकरः। न किम् न भवति किम् । भवत्येवेति भावः ।
अत्र भगवान् व्यासः – " अभ्यावहति कल्याणं विविधं वाक्सुभाषिता ।
सेव दुर्भाषिता राजन्ननर्थायोपकल्पते" इति ॥ यथा प्राणाधारणहेतु
जलं प्रदाय नितरामुपकुर्वन्नपि जलदस्स्वभीषणघोषणेन भीति जनयति
लोकस्य न प्रीति तथा राजा प्रजानामत्यन्तं हितकरोऽपि यदि
परुषभाषी स्याद्भीतिभाजनं लोकस्य न प्रीतिभाजनमित्येकमेव ( सजा
तीयं ) सामान्यं वाक्ययोरसकृन्निदिष्ट मित्यलङ्क तिरत्र प्रतिवस्तूपमा ।
तल्लक्षणं तु
"वाक्योरेकसामान्ये प्रतिवस्तूपमा मता" इति ॥
 
C
 
180
 
दण्डपारुष्यमधिकृत्य ब्रूते
 
-
 
दुनोति दण्डेन दुरुत्सहेन यः
प्रसह्य राष्ट्र पदमात्मसम्पदाम् ।
स वृक्षमारुह्य कुठारपातनं
करोति मूलोद्दलनाय दुर्मतिः ॥
 
11
 
32
 
11
 
दुनोतीति ॥ यः राजा । आत्मसम्पदाम्
 
स्वधनोत्कर्षाणाम्
 
पदम् स्थानम् स्थितिसाधनम् अवलम्बनहेतुम् प्रधानकारणमिति
यावत् । करग्रहणादिना राजसम्पदः
भावः । ' पदं व्ववसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु इत्यमरः । राष्ट्रम्
प्रजाभ्य एव समुपलब्धेरिति
स्वदेशम् । कर्म । स्व ( देश ) प्रजा इत्यर्थः । अथ राष्ट्रोऽस्त्री
 
(