This page has not been fully proofread.

तृतीय सर्गः
 
177
 
या जनः भजेत सेवेत
 
तामाश्रयेत् तदाचरणं कुर्यात् । न कोऽपि
तथा भवेदिति भावः । आप्तवाक्यं तत्र प्रमाणयति । हि हेतौ ।
यत एवं तत इति पूर्वेण सम्बन्ध : विचक्षणैः । दूरदर्शिभिः
धीमद्भिः ' धीमान् सूरिः कृती कृष्टिलब्धवर्णो विचक्षण: दूरदर्शी
दीर्घदर्शी' इत्यमरः । इयं पूर्वोक्ता मृगया । प्रमाद्यताम् प्रकृष्टं मदा
वस्थामाप्नुवताम् । लोकोपद्रवकारिणामिति भावः । अन्यत्र हर्षपारवश्य
मयताम् । स्वकृत्यानि विस्मृत्य लोकमजानतां भोगैकसक्तचित्ताना
मिति भावः । पार्थिवाः राजानः त एव गन्धहस्तिनः मदगजा: ।
तेषाम् । वारी गजबन्धनार्था भूमि मदापहारिणीत्यर्थः । गजानां
मदपारवश्यमिव राज्ञां भोगैकप्रवणचित्ततामपहरन्ती स्वरूपस्मारिकेति
भावः । क्रूरमृगोपद्रववारणादिलोकहितायैव मृगयामाचरेद्राजा, नतु
कदापि कालयापनायेति परमार्थ: । " अबलस्वकुलाशिनो झषान् निज
नीडद्रुमपीडिन: खगान् । अनवद्यतृणाथिनो मृगान् मृगयाघाय न
भूभृतां घ्नताम्
मृगया न विगीयते परैरपि धर्मागममर्मकोविदः
इत्यादीनामत्रैव तात्पर्यम् । अत्र मृगयायां वारित्वसमारोपणाद्रूप
कम् । तच्च पार्थिवे गन्धहस्तित्वरूपणस्य हेतुभूतमिति परंपरितम् ।
तच्च प्रमाद्यतामित्यत्र श्लेषेण समुत्थापितमिति श्लेषरूपकयोस्सङ्करः ॥
 
""
 
"
 
व्यसनान्तःपाति मद्यपानं महापातकेष्वप्येकम् । तन्निषेधति
 
समग्रतारुण्यमदस्य सम्पदा
 
स्खलद्गतेर्यन्मदिरानिषेवणम् ।
 
स एष दोषत्रयजे महाज्वरे
ग्रहाभिभूतस्य भुजङ्गनिग्रहः ॥
 
-
 
-
 
30
11 11
 
तरुणस्य भावः तारुण्यम् यौवनम् 'गुणवचन
 
समप्रेति । ॥
ब्राह्मणादिभ्यः' इति व्यञ् । दृढादित्वात् व्यजिति गणरत्नव्याख्या ।