मधुराविजयम् /311
This page has not been fully proofread.
मधुराविजये
इति धरणिः । परार्थम् परार्या: परानुभवफलका इत्यर्थ: ।
नैव कदाचिदपि स्वानुभवायेत्येवकारार्थः । 'नपुंसकमनपुंसके' नेत्येक
शेष: । एकवद्भावश्च । ध्रुवम् नूनम् । पुराणादिषु श्रुतत्वाल्लोके
दृष्टत्वाच्च, न तत्र संशयलेशोऽपीति भावः । विवेकवानप्यक्षदेवनपरस्स्वं
स्वीयं सर्वं परेभ्योऽर्पयित्वा दुःखी सम्पद्यत इति न तत्र प्रवर्तनीयं
जनेनेति परमार्थः ॥
176
"
मृगया नितरां न प्रतिषिध्यते तत्र व्यसनिना न भवितव्यमिति
व्यसनमेव तु निषिध्यत इत्याह
विना फ़लं जीवितसंशयप्रदां
विनोदबुद्धया मृगयां भजेत कः ।
प्रमाद्यतां पार्थिवगन्धहस्तिना
सियं हि वारी कथिता विचक्षणैः ॥
29
11
विनेति ॥ जीवितम् जीवनम् । जीव प्राणन इत्यकर्म का द्भावे
क्तः । तस्मिन् संशयः जीवति वा न वेति सन्देहः । तस्य प्रदाम्
तद्दात्रीम् तज्जनन हेतुभूताम् प्राणोनद्रवकारिणीमिति यावत् । ताम्
मृगयाम् आवेटम् । 'परिचर्या परिसर्या मृग ' येति निपातनात्साधुः ।
फलं विना प्रयोजनेन विना प्रयोजनमनुद्धिश्य निष्फलमिति यावत् ।
सति प्रयोजने तत्र प्रवृत्तिर्न दोषायेति भावः ।
स्तृतीयान्यतरस्या' मित्यत्रान्यतरस्यामित्येतत्समुच्चयार्थकमिति द्विती
'पृथग्विनानानाभि
याया अपि तत्सूत्र विहितत्वाद् द्वितीया 'योगविभागेन तद्विधानम्
" विना वातं विना वर्षं विद्युत्प्रपतनं विना । विना हस्तिकृतान्
दोषान् केनेमौ पतितौ दृमौ " इत्यादिषु द्वितीयाया अपि दर्शना
दिति काशिका । विनोदयतीति विनोदम् सन्तोषजनकं कृत्यम् ।
सामान्ये नपुंसकम् । तदिति बुद्धि समालोवतम् । तथा का को
—