मधुराविजयम् /309
This page has not been fully proofread.
मधुराविज़ये
इशत्रुभ्यो विजयं सुखेन साधयतीति वा तथोक्तिः । यद्वा । मायाविन
शम्बरस्य हन्ताऽयमित्ययमपि मायाविद्यापारगो भट इति वा ।
यद्वा । स्वमनस्स्वस्य विरोधि न भवतीति लोके सर्वोऽपि विश्वसिति,
तत्र जातोऽयं सर्वेषां प्रत्ययपात्रं तदेव सपत्नं विधाय स्वमायया
सर्वं लोकं जयतीति वा । प्रवञ्चना, अविद्यमान वस्तुप्रकाशनमित्यादि
मायापदार्थ इति स्पष्टं सर्वतन्त्रसिद्धान्तपदार्थलक्षणसंग्रहे । तस्य
( शस्त्र्य इव ) शस्त्रिकाः । (स्वार्थे कः । केऽण इति ह्रस्वः ।) छुरिकाः
असिपुत्रिकाः 'शस्त्रमायुधे लोहे शस्त्री छुरिकाया' मिति हैम: ।
विजयसाधनभूता इति यावत् । स्त्रियः वनिताः । उद्देशभूताः ।
मनीषा बुद्धिः एषामस्तीति मनीषिणः बुद्धिमन्तः प्राज्ञाः विवेकिन
इत्यर्थः । व्रीह्यादित्वादिनि: । 'धीरो मनीषी ज्ञः प्राज्ञः' इति चामरः ।
तेषाम् । विश्वासपदम् विस्रम्भस्थानम् स्वहितचिन्तायाः भाजनानि ।
तैर्विश्वसनीया इत्यर्थः । कथम् केन वा प्रकारेण भवन्ति । नु पृच्छा
याम् ।
इति विश्वः ।
इति विश्वः । एवंविधा
नु पृच्छायां विकल्पे च'
स्त्रियः श्रेयस्कामेन विवेकिना जनेन यथाकथमपि न विश्वसनीया
एवेति भावः । स्त्रियो न विश्वसनीया इति वाक्यार्थे विशेषण
गत्या अशेषदोषाङ्क रकुञ्जभूमय इत्यादि पदार्थानां हेतुत्वमिति काव्य
लिङ्गभेदोऽलङ्कारः। परंपरितरूपकं च तदङ्गमिति तयोस्सङ्करः ॥
देवनं द्विविधम्
देवनं च महतेऽनर्थायेति तन्निषेवति
अचेतनैश्शारिकादिभिस्संक्रीडनमेकम् अविकादीन् प्राणिनः पणीकृत्य
देवनरूपमेकम् । एतस्य द्वितीयस्यैव समाह्वयमिति व्यवहारः । अत्र
द्यूतमात्रस्यानर्थकारित्वमभिदधदयं श्लोकस्तद्द्वयमप्यनर्थायेति
पुरुषं निवर्तयति –
ताभ्यां
174
फलोत्तरा भूमिरनत्ययं बलं
महार्हरत्नाभरणं च सम्पदः ।