This page has not been fully proofread.

मधुराविजये
 
( मासश्छ
 
स्तु संज्ञापूर्वको विधिरनित्य इति परिभाषया । अतएव प्रायुञ्जत
महान्तः कवय एनं भाषायाम् । " न तद्यशश्शस्त्रभृतां क्षिणोति
"पञ्चबाणः क्षिणोति " दक्षशाप इव चन्द्रमक्षिणोत् " इत्यादि ।
यद्वा – " छान्दसा अपि क्वचिद्भाषायां प्रयुज्यन्ते " इति
न्द' सीति वार्तिके छन्दोग्रहणसामर्थ्यात् ज्ञाप्यत इति तेन वा
समाधेयम् । रोहिण्यामतिप्रसक्तं तारानाथं स्वजामातरमपि चन्द्रं दक्ष
स्स्वतनूजाभिनिवेदितापराधश्शशाप कृष्णपक्षे क्षयिणमित्येषा पौराणिकी
गाथाऽत्रानुसन्धेया । यौवनवतः पुंसो व्यसनजा विपन्मदौद्धत्यादिभि
स्समेधिता दुरन्ता समूलं नाशयितुं प्रभवतीति निष्कृष्टोऽर्थः । अल
ङ्क तिरुपमा । उपमानं च पुराणप्रसिद्धम् ॥
 
172
 
कामजा: क्रोधजाश्चेति
 
द्विविधा दोषाः । त एव व्यसनानीति
व्यवह्रियन्ते । तत्र तावत् कामजगण इच्युच्यते - स्त्रीद्यूतमृगया
पानानि प्रधानतः । तत्र स्त्रीप्रभवो दोषः सर्वदोषाणां मूलमिति तमेव
तावत्प्रथमत आचष्टे
 
-
 
"
 
अशेषदोषाङ्क रकुञ्जभूमयो
मदान्धचेतोमृगबन्धवागुराः ।
कथं तु विश्वासपदं मनीषिणां
मनोजमायाभटशस्त्रिकाः स्त्रियः ॥
 
27 11
 
अशेषेति ॥ अशेषदोषाः अखिलानि दूषणानि सर्वविधानि
दुष्कृत्यानि । सर्पदंशनादिमहोपद्रवाश्चेति गम्यते । तेषाम् अङ्करः
प्ररोह उत्पत्तिः तस्य कुञ्जभूमय: लतागृहप्रदेशः । यथावा क्रूरमृग
दुष्टसर्पादय: निगूढं तेषु स्थित्वा सन्निहितस्वजनस्य प्राणोपद्रवादि
रूपं दोषमापादयितुं प्रभवन्ति तद्वत् स्त्रियोऽपि स्वविलासकटाक्षा
न् विषदिग्धबाणान् स्वाश्रयिणि जने प्रयुज्य प्रमादं जनयन्तीति