This page has not been fully proofread.

तृतीयसर्गः
 
युवानमज्ञातनयागमक्रमं
स्वतन्त्रमैश्वर्यमदोद्धतं नृपम् ।
विपत्क्षणेन व्यसनानुबन्धजा
 
क्षिणोति चन्द्रं क्षणदेव तामसी ॥
 
26
 
171
 
'व्यसनं
 
युवानमिति ॥ व्यसनं पानस्त्रीमृगयादिषु सक्तिः ।
 
तस्य अनुबन्धः
 
त्वशुभे सक्तौ पानस्त्रीमृगयादिषु' इति विश्वः ।
अनुसरणम् तस्माज्जायते उत्पद्यते संभवतीति तथोक्ता । विपत्
अज्ञातः अविदितः नयागमः
आपत् व्यसनसंभूतं दुःखम् । क़र्तृ ।
नीतिशास्त्रम् तस्य क्रमः पद्धतिः अनूचानसिद्धस्संप्रदायः सः येन
किञ्च ।
तथाभूतम् ।
ईश्वरस्य भावः ऐश्वर्यम् प्रभुता धनोत्कर्षः ।
तस्मान्मदः तत्संजाताहङ्क तिः तेन उद्धतम् मत्तम् गर्वितम् । अतएव
स्वतन्त्रम् स्वैरिणम् विषयेष्वतिप्रसक्तत्वात् गुरुशास्त्रादीन विगणय्य
स्वबुद्ध्यनुसारेण उच्छृङ्खलप्रवर्तिनम् । युवानम् तरुणम् नवयौवनोपेतम् ।
नृपम् राजानम् युवराजमित्यर्थः । कर्म । क्षणेन मुहूर्तेन अल्पेनैव
कालेन । 'क्षणो व्यापारशून्यत्वमुहूर्तोत्सवपर्वसु ' इति रुद्रः । तामसी
अन्धकारबहुला क्षणदा रात्रिः कृष्णपक्षरात्रिः । तमिस्रातामसीशब्दौ
पर्यायौ । तथाचामरः - 'तमिस्रा तामसी रात्रि: '
 
-
 
कृष्णपक्षरात्रौ प्रसिद्धः ।
 
इति । तमिस्राशब्द:
'तमिस्रं तिमिरं कोपे तमिस्रा तु तम
स्ततौ । कृष्णपक्षनिशायां च ' इति विश्वमेदिन्यौ । सा चन्द्रम् निशा
क्षणु – हिंसायाम्.
पतिमिव क्षिणोति हिनस्ति क्षयं नयतीत्यर्थः ।
क्षिणु च इति पठितस्येदं लटि रूपम् । यद्यपि तृप प्रीणने इत्य
स्मादनन्तरं छन्दसीति पठितम् ।' छन्दसीत्यागणपरिसमाप्तेरधिक्रियत'
इति व्याख्यातं च क्षीरस्वाम्यादिभिः । तथापि क्षेरेव तु श्नौ सति
भाषायामपि क्षिणोतीति केचित् । तथा च दैवम् "एके क्षेरेव
भाषायां क्षिणोतीति पदं विदुः । " इति । उप्रत्ययनिमित्तगुणाभाव