This page has not been fully proofread.

170
 
"
 
मधुराविजये
 
तमः प्रदोषे तरुणिम्नि कस्य वा
समञ्जसं पश्यति दृष्टिरञ्जसा ॥
 
25 11
 
भवतीति ॥ अहङ्कारः गर्वः 'गर्वोऽभिमानोऽह्ङ्कार' इत्यमरः ।
 
,
 
स एव महीरुहः वृक्षः तस्य अङ्करः बीजम् नूतनाङ्कङ्कुर'। 'अङ्कुरो
sभिनवोद्भिदि इत्यमरः । यौवनदर्पाद् दुरहङ्क तिरुत्पद्यतेऽभिवर्धते च
बीजाहृक्ष इव क्रमेण शाखोपशाखाभिरित्यत एवमुच्यते । तस्मिन् ।
किञ्च । दया करुणा सैव पयः जलम् तस्य शोषणम् ग्लापनम्
( तापनम् ) तस्य दारुणः भयङ्करः ऊष्मा निदाघः ग्रीष्मर्तुः । 'ऊष्मा
तपनिदाघयोः' इति नान्तेषु वोपालितः । भूतमैत्र्यास्सर्वस्या अप्यप
हारक इत्यर्थः । तस्मिन् । किञ्च । तम एव तमः अज्ञानान्धकारः
तस्य प्रदोषः रजनीमुखम् रात्र्यारम्भकः कालः । तत्प्रभृत्येव तमः
प्रवृत्तेदृ ष्टत्वादेवमुक्तिः । तथाभूते तरुणिम्नि यौवने तरुणस्य भाव
इति मुग्धिमादिवदिमनिच् । भवति सम्पद्यमाने सम्भवति सतीत्यर्थः ।
'यस्य च भावेन भावलक्षण' मिति सप्तमी । कस्य वा कीदृशो
वा जनस्य । दृश्यते ज्ञायते अनयेति करणे क्तिन् - दृष्टि: बुद्धिः ।
दृश्यर्थास्सर्वे ज्ञानार्थी इति नियमाद् दृशिर्ज्ञाने ।
'स्रग्झडित्यञ्जसाह्लाय द्राङ मङ क्षु सपदि द्रुतौ' इत्यमरः । उपदेश
अञ्जसा झटिति
श्रवणादिप्रयासमन्तरेति भावः । समञ्जसं न्यायम् । 'अभ्रेषन्यायकल्पास्तु
 
S
 
देशरूपं समञ्जसम्
 
इत्यमरः । पश्यति आलोचयति परामृरातीति
काकुः । न कस्यापीति भावः । यौवनोदयस्सर्वेषामपि दोषाणां प्रभव
स्सर्वस्यापि जनस्येति तत्र जागरूकेण भाव्यं श्रेयस्का मेनेति परमार्थ: ।
एकत्र श्लिष्टपरंपरितमन्यत्र केवलपरंपरितं रूपकमलङ्कारः ॥
 
विषयेष्वतिप्रसक्तिर्व्यसनम्, तद्वर्जनमत्यावश्यकं नृपस्येति बोध
यितुमारभते –
 
,
 
-