मधुराविजयम् /304
This page has not been fully proofread.
169
तृतीयसर्गः
3
यावत् ।
।
तस्मिन् कालिका मेघसमूहः । 'मेघजाले च कालिका '
इत्यमरः । चन्द्रं मेघमालेवाच्छादयति विवेक़सर्वस्वं स्वाहंभाव इति
तथोक्तिः । तथाभूता । महती चासौ निशीथिनी महानिशीथिनी ।
सूचिभेद्या दुर्गमा अन्धकारबहुला कृष्णपक्षरात्रिरिति यावत् । तस्यां
चन्द्रदर्शनस्येव तारुण्यमदाक्रान्ते जने ज्ञानस्य मृग्यत्वमित्येवं रूप्यते ।
किंच ।
मनसि जायत इति मनोज: मन्मथ: ' सप्तभ्यां जनेर्डः
इति डः । स एव मत्तद्विपः गन्धहस्ती मदगजः । स इव दुनिरोध
प्रसरत्वात्तदानीं तस्येत्येवमभिधानम् । तस्य वैजयन्तिका पताक़ा ।
पताका यथावा गजस्य सौभाग्यवर्धिका तथा यौवनमदोऽप्ययमप्रति
हतमन्मथप्रवृत्तीनामभिवर्धकः क्षणक्षणमित्येवमभिधीयते । तत इत्यर्था
दाक्षिप्यते । यत एवं तत इत्यर्थः । शरीरिणाम् देहवताम् प्राणि
नाम् । 'प्राणीतु चेतनो जन्मी जन्तुजन्यशरीरिणः' इत्यमरः ।
शश्वत् पुनः पुनः क्षणक्षणमित्यर्थः । बहुवारं तत्र प्रमादसम्भव इति
सर्वदा जागरूकैर्भाव्यमिति सूच्यते । न लतुं शीलमस्या अलङ्घनी
दुरतिक्रमा । " बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति" इति न्यायेन
विदुषोऽपि सम्मोहजनकत्वेन दुनिरोधस्वभावेति यावत् । दशा अवस्था
अवस्थाविशेषः दुरवस्था दुरवस्थासम्पादिकेत्यर्थः । कार्यकारणयोरभेदोप
चारात् । क्षणक्षणजागरूकतायाः तदानीम् दुःखशीलत्वादित्यमुक्तिः । एवं
नवयौवनस्य दुःखसंपादकत्वेन तत्र गुरूपदेशाद्याकलय्य प्रयततेतरां विवेक
सम्पादनेन तद्दुःखं निराकर्तु बुद्धिमान् भवादृग्जन इति परमार्थः । यौवन
मदे महानिशीथिनीत्वादिरूपणान्मालारूपकमलङ्कारः ॥
यौवनादनर्थो महानित्यमुमर्थमेव विशदयति
भवत्यहङ्कारमहीरुहाङ्कुरे
दयापयशोषणदारुणोष्मणि ।
-