मधुराविजयम् /300
This page has not been fully proofread.
35)
"
तृतीयसर्गः
।
,
धिय इति ॥ तात वत्स । तातेति वात्सल्येनामन्त्रणे ।
तातोऽनुकम्प्ये पितरि ' इति हेमचन्द्रः । हि हेतौ । यत इत्यर्थः ।
जनाः प्रजा: ( कर्तार: ) सर्वसाधारणोऽयं क्रमः इति भावः
उपदेश: गुरुशिक्षा तैलमिति गम्यते । तेन संभृतात् परिपूर्णात् वर्धिष्य
माणादित्यर्थः । धियः बुद्धेः । कर्तरि षष्ठी । दीपकलिकाया इति गम्यते ।
प्रकाशः प्रकाशनम् द्योतनम्। भावे घञ् । स एव प्रकाशः दीपकान्तिः । तस्मात्
तेनेत्यर्थः । तरुणस्य यूनः भावः तारुण्यम् । भावे प्यञ् । तदेव दुर्दिन मिति
गम्यते । तेन विजृम्भितम् अतिशयितम् अप्रतिहततया प्रसृतम् । तमः तमो
गुणः तज्जन्यत्वादज्ञानम्, तच्च कर्तव्याकर्तव्यप्रवृत्तिज्ञानाभावः विप
रीतज्ञानं च । ' राहौ ध्वान्ते गुणे तमः इत्यमरः । तदेव अन्ध
तमसमिति गम्यते । तत् समुज्झितुम् परित्यक्तुम् दूरतः कर्तुम् ।
" पारयति
पारिता: पर्याप्ताः प्रभवितारः । तादृक्कार्यकरणेऽशक्ताः ।
कल्पते राघते लाघते शक्तौ " इति भट्टमल्लः । भवन्ति सम्पद्यन्ते ।
तत् तस्मात् तेन कारणेनेत्यर्थः । एतत् इममर्थम् स्वोपदेशमित्यर्थः।
सामान्ये नपुंसकम् । त्वम् भवान् । कम्पराजं प्रत्युक्तिः । आकर्ण
यितुम् श्रोतुम् । अर्हसि युज्यसे योग्योऽसि । अपेक्षिते बुद्धिमतो
जनस्य नह्य पेक्षा समुचितेति भावः । " धन्यः कोऽपि न विक्रियां
कलयते प्राप्ते नवे यौवने " इति रीत्या यौवने नवे वयसि
महान्तोऽपि विकुर्वन्ति । अतश्शास्त्रसंस्कारेण गुरूपलब्धेन तदानी
मात्माऽवश्यं निग्राह्य इति निर्गलितोऽर्थः ॥
"
उपदेशस्य प्राशस्त्यमेव भङ्गयन्तरेण प्रस्तौति
गुरूपदेशः किल कथ्यते बुधै
रक़र्क़शं किञ्चन रत्नकुण्डलम् ।
अमेचकं नूतनमञ्जनं सता
मजातगात्रक्षयमद्भुतं तपः ॥
165-
-
22 2 11