This page has not been fully proofread.

तृतीयसर्गः
 
तथात्वान्न तथेति
 
मात्रसिद्धसर्वार्थानां देवानामपीत्यर्थः । अतिमात्रम् अत्यन्तम् दुर्लभम्
दुष्प्रापम् एकस्मिन्ननुरक्तेऽपरस्मिन् जनेऽनुरागभावस्य तेष्वपि दृष्ट
त्वादिति भावः । परस्परम् इतरेतरम् प्रेमरस: प्रणयास्वादः तेन
उत्तरम् श्रेष्ठम् प्रशस्तम् उपर्युदीच्य श्रेष्ठेष्वप्युत्तरस्स्यात् ' इत्यमरः ।
सुखम् सौख्यम् । अनुरागस्याभासत्वे तज्जन्यस्य सौख्यस्यापि
बोधयितुमेवमुक्तिः । निर्विशति स्म अनुबभूव ।
लट् स्मे ' इति लिटोऽपवादो लट् ।' उपभुङ्क्ते तूपभोगे संभुङ्क्ते
निर्विशत्यपि ' इति भट्टमल्लः । राजदम्पतिभ्यामनुभूयमानं सुखं
देवतानामप्यतिमात्रमलभ्यमिति वर्णनादत्युक्तिः । न चायमतिशयोक्ति
विशेषः । अतथ्याभिवानमेव न केवलमत्र वर्णितम् । दैवांशसंभूतस्य
मानुषस्य तस्य दैवतदुर्लभसौख्यानुभूतिस्संभूतेत्याश्चर्यजनकत्वेन चम
त्कारजनकताऽपीत्येतादृशे स्थले तदनुत्थानात् । अत्युक्तेर्लक्षणं तु -
अत्युक्तिरद्भ, तातथ्यशौर्योदार्यादिवर्णनम् " इति ॥
 
-
 
(6
 
(
 
163
 
विनयवत एव कुमारस्य यौवराज्येऽधिकारः । यथाऽऽह काम
दक:- "विनीतमौरसं पुत्रं यौवराज्येऽभिषेचये" दिति । विनयश्च द्विविधः
स्वाभाविकः कृत्रिमश्चेति । कौटिल्योऽप्याह - विनयो द्विविधः स्वाभा
विकः कृत्रिमश्चेति । अतएव स्वाभाविक विनयवन्तं कुमारं स्वोपदेशेन कर्तु
मत्यन्तविनीतं प्रयतते बुक्कराजश्श्लोकमिममारभ्याष्टादशभिरश्लोकैः
 
अरातिवर्गोन्मथनेन विश्रुतं
विधातुमत्यन्त विनीतमप्यमुम् ।
कदाचिदर्थोल्लसितेन भूपति
 
-
 
स्स वाङ्मयेनैवमुपादिशत्सुतम् ॥
 
20 IL
 

 
अरातीति ॥ सः भूपति: बुक्कराज: कदाचित् एकदा
कस्मिंश्चित् काले । शिक्षायास्समुचिते समय इत्यर्थः । काले उप्तस्यैव