This page has not been fully proofread.

162
 
मधुराविजये
 

 
तस्य रमा लक्ष्मीरिव । शं भवत्यस्मादिति शम्भुः शिवः । मितद्र्वादि
त्वाड्डुः । तस्य सती तदाख्या दाक्षायणीव । वेधसः ब्रह्मणः सुगिरा सूनृता
वाक् । तदधिष्ठानभूता सरस्वतीव । तस्य महीभृतः राज्ञः कम्पनस्य ।
अतिप्रिया प्रियासु अत्यन्त मिष्टा प्रियतमेत्यर्थ: । कृताभिषेका देवी 'देवी
कृताभिषेकायाम्' इत्यमरः । बभूव आसीत् । अन्यरेष्वनु
वत्त्वेऽपि तस्यां प्रीतिरेतस्यानन्यादृशीति भावः । उदाहृतमिदमुपमा
चतुष्टयं देव्यामस्यां विशिष्य यथाक्रमं सौशील्य सौन्दर्य सौभाग्यपावि
त्र्याणि द्योतयति ॥
 
कृताभिषेकया देव्या साकं सुखानुभूतिरिदानीं कम्पराजस्य
 
प्रस्तूयते -
 
-
 
नरेन्द्रसूनुर्नयनाभिरामया
 
तया समं निविशति स्म सुभ्रुवा ।
परस्परप्रेमरसोत्तरं सुखं
दिवौकसामप्यति मात्रदुर्लभम् ॥
 
19
 
नरेन्द्रेति ॥ नरेन्द्रसूनुः राजकुमार: युवराज: कम्पन इत्यर्थः ।
 
"
 
पुरस्तादुपदेक्ष्यमाणं राजनीत्यादि पूर्वं प्रस्तुतो विवाह विधिश्च कम्प
राजं युवराजं क़थयतः । नयनाभ्याम् नेत्राभ्याम् मीनवच्चञ्चला
भ्याम् आयताभ्यां चेत्यर्थ: । अभिरामया मनोज्ञया आह्लादिकया ।
यद्वा - नयनयोः पश्यतां नेत्रयोः अभिरामया इति वा । तया पूर्व
वर्णितया सुभ्रुवा सुन्दरभ्रूयुतया रमण्या समम् तत्सहित इत्यर्थः ।
दिवम् स्वर्गः ओक़ः आश्रयः येषां तथोक्ताः देवाः ।
का दिवोकाश्च देवे चापीह पक्षिणि ' इति रन्तिदेवः । दिवशब्दो
स्याद्दिवौ
ऽदन्तोऽपि • मन्दारस्सैरिभश्शक्रभव ( सद) नं स्वं दिवं नभः
इति त्रिकाण्डशेषः । तेषाम् । अपिशब्दस्समुत्कर्षं गमयति । सङ्कल्प
 
"