This page has not been fully proofread.

तृतीय सर्गः
 
ग्रीष्मे
 
वर्षर्तुः । पुंलिङ्गनिर्देशोऽयं वरवधूसंयोजकतामस्य गमयति ।
कृशानां नदीनां वर्षासु प्रवाहाधिक्येन सागरगमनस्य लोकदृष्टत्वात्
वरवध्वोस्संयोजकोऽयमिति युज्यते । संभृता सम्पूर्णा रत्नानां संपत्
आधिक्यम् यस्मिन् तम् । यतो रत्नाकरोऽयमिति भावः । अनेन
वरस्य भाग्यसमृद्धिस्सूचिता । अम्भसाम् निधिम् अपांनिधिम् अक्ष
व्योदकं समुद्रभित्यर्थः । वराः श्रेष्ठाः नतु क्षुद्राः । वर्षाकाले प्रवा
होल्बणतासम्भवेऽपि अल्पसरितां साक्षात्समुद्रसङ्गमासंभवादेवमुक्ति: ।
अनेन नायिकासु गुगुणसम्पत्त्याभिजात्यादयस्सूच्यन्ते । आपगा: गङ्गाद्या
नद्यः । अपां समूहः आपम् तेन गच्छन्तीति ड प्रकरणे ' अन्येष्वपि
दृश्यत' इति गमेड: । ताभिरिव । समुद्रस्य सरित्पतित्वेन दृष्टान्तस्य
दान्तिके सुसङ्गतिरवगम्यते । यथा वा महानद्यो वर्षामुखात्
समुद्रेण संयुज्यन्ते तथा गुणवत्यो राजकुमार्यस्तास्ताः बुक्कराजसमुप
नीतास्तदनुमत्या कम्पराजेन समगच्छन्तेति वर्णनया कम्पराजस्य ताभि
पृथग्भावः कथ्यते । तेन तयोः परस्परप्रेमरसानुबन्धस्सूच्यते ।
'पूर्णदृष्टान्तोऽयम् ॥
 
इत्यर्थः ।
 
161
 
शचीव शऋस्य रमेव शाङ्गिण
स्सतीव शम्भो [ स्सुगिरेव वेधसः ।
अतिप्रिया तासु बभूव काचि
न्महीभृतस्तस्य कृताभिषेका ] ॥
 
"
 
शचीवेति ॥ तासु पूर्वं विवाहितासु राजकुमारीषु मध्ये
यतश्च निर्धारण ' मिति निर्धारणे सप्तमी । काचित् अनि
र्वचनीया रूपगुणसौन्दर्यादिभिः एतादृशीति वक्तुमशक्या वधूरित्यर्थः ।
शक्रस्य इन्द्रस्य शची पुलोमजेव । देवकन्यासु इतरासु सतीष्वपी
त्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् । शार्ङ्ग धनुरस्य शाङ्ग विष्णुः
 
1118 11
18₁