This page has not been fully proofread.

DAN
 
160
 
मधुराविजये
 
गतोऽभिप्रायः लक्षणया तत्स्थानं हृदयमुच्यते । ' आशयौ स्थान
तात्पर्ये' इति नानार्थंरत्नमाला । स्वरेण कण्ठव्वनिना सह गाम्भीर्यम्
अगाधताम् आकारगोपनम् मेघध्वनिवत मधुरतां च । अगच्छत्
अवाप । शरीरावयवाः यथा दिनदिनमभिवृद्धिमगमन् तथा प्रतापादयः
इति कल्पितोपमा नायकसमुत्कर्षस्य व्यञ्जिकेति सहोक्तिरलङ्कारः । अत्र
प्रतापवान् यशस्वी गुणाढ्यो गम्भीराशय इति नायकस्वभावः, महोन्नतो
निरवद्यकीर्तिविशालकन्धरो गम्भीरस्त्रर इति तत्स्वरूपं च समुपं
वर्णितम् । बाणोऽप्येवमेव कादम्बर्यां चन्द्रापीडं सहोक्त्याऽवर्णयत्
" प्रतापेन सहारुरोह रोमराजि: चरितेन सह धवलतामभजत
लोचनयुगलम्, स्वरेण सह गम्भीरतामाज़गम हृदयम् " इति ॥
 
"
 
विवाहस्य समुचितं वयोगुणरूपाद्यभिवर्ण्य परिणयमद्य वर्णयति -
 
अथैनमासादितयौवनोदयं
 
नरेन्द्रकन्याभिरयोजयन्नृपः ।
घनागमस्संभृतरत्न सम्पदं
 
वरापगाभिनिधिमम्भसामिव ॥
 
11
 
-
 
,
 
अथेति ॥ अथ विवाहयोग्यताप्राप्तिसमनन्तरभाविनि क़ाले नृपः
महाराजो बुक्कः । आसादितः संप्राप्तः यौवनोदयः नवयौवनम् येन
तम् । एनम् पूर्वकथितभाग्यसौभाग्यवत्त्वादिगुणगणोपेतं राजकुमारम् ।
'द्वितीयाटौस्स्वेन' इत्येतदोऽन्वादेशे एनादेशः । नरेन्द्रकन्याभिः राज
कुमारीभिः । नरेन्द्रकन्याभिरित्यनेन तासामाभिजात्यसमृद्धिरपि सूचिता ।
' कन्या कुमारिकानार्योः' इति मेदिनी । अयोजयत् संयोजयामास ।
यथाविधि तासां पाणिग्रहणमकारयदित्यर्थः ।
घनस्य मेघस्य आगम: आगमनम् वृष्टयर्थमित्यर्थः । आद्यो मेघोदय
तत्र दृष्टान्तमाह
इति यावत् । सोऽस्मिन्नस्तीति अर्श - आदित्वादच् । घनांगमः
 
-