This page has not been fully proofread.

तृतीयसर्गः
 
णाम, हृदयैः मनोभिः । अन्तरा अन्तरे मध्यभागे 'अथान्तरेऽन्तरा ।
अन्तरेण च मध्ये स्युः' इत्यमरः । अनुप्रविष्टम् तदन्तनिविष्ट
मिवेति सम्भावना । गर्भितानि गर्भवन्ति मध्यभागस्थितवन्ति कृतानि
रक्तसन्ध्यकानि रक्तकह्लाराणि हल्लकानि यस्मिन् तत् । 'हल्लकं
रक्तसन्ध्यक' मित्यमरः । रक्तसन्ध्यकैरलङ्क तस्वमध्यभागमित्यर्थः ।
आयतम् दीर्घम् केशकलापम केशपाशम केशसमूहः । कर्म । 'पाशः
पक्षश्च हस्तश्च कलापार्था: कचात्परे' इत्यमरः । अधारयत् अधत्त ।
रक्तसन्ध्यरलङ्क तस्तस्य केशपाशस्सुन्दरीणां गाढानुरागजनकस्सन् तासां
हृदयान्यपाहरदिति भावः । अनुरागस्य रक्तवर्णता कविसमयसिद्धेत्यु
त्प्रेक्षायास्सङ्गतिः ॥
 
"
 
यशःप्रतापसौभाग्याख्याः नायकगुणा: अस्मिन् वर्ण्यन्ते
 
सह प्रतापेन समुन्नति वपु
र्वलक्षभावं यशसा विलोचने ।
 
गुणैः परीणाहममुष्य कन्धरा
स्वरेण गाम्भीर्यमगच्छदाशयः ॥
 
11
 
-
 

 
159
 
16 11
 
सहेति ॥ अमुष्य राज्ञः वपुः शरीरम् । प्रतापः पौरुषम्
तेज इत्यर्थः ।
' प्रतापौ पौरुषातपौ' इति नानार्थरत्नमाला ।
 
(
 
तेजसो लक्षणं तु " अधिक्षेपावमानादेः प्रयुक्तस्य परेण यत् । प्राणा
त्ययेऽप्यसहनं तत्तेजस्समुदाहृतम्,
" इति । अमरस्तु स प्रतापः
प्रभावश्च यत्तेजः कोशदण्डजम् ' इत्याह । तेन सह समुन्नतिम्
औत्कृष्टयम् औन्नत्यम्, विलोचने नेत्रे यशसा कीर्त्या सह वलक्ष
भावम, धवलताम्, 'वलक्षो धवलोऽर्जुनः' इत्यमरः । कन्धरा शिरोधिः
ग्रीवा ' कन्धरो वारिवाहे स्याद् ग्रीवायां कन्धरा मता' इति विश्वः ।
गुणैः सुगुणैस्सह परीणाहम् वैशाल्यम् बाहुल्यं च । आशयः हृदय