This page has not been fully proofread.

मधुराविजये
 
उल्बणा निम्नोन्नता, सा
ताम् । "भ्रुवौ नासा
 
सामुद्रिकोक्तेः । आयता
 
नासिकाया औन्नत्यस्य दैर्ध्यस्य च
तुङ्गनासं शूरपण्डितलक्षणम्
 
"
 
दीर्घत्वे
 
अनुल्बणामिति ॥ लोकः जनः ।
न भवतीति अनुल्बणा समनासापुटेत्यर्थः ।
पुटौ यस्य समौ ज्ञेयस्स भूपतिः " इति
दीर्घा तुङ्गा उन्नता ( अतएव ) बन्धुरा सुन्दरा । तथाविधाम् ।
फलमेवं दर्शितं सामुद्रे - " दीर्घक
भाग्यवान् भवेत् " इति
च । अस्य नृपस्य नासिकाम नासाम् । विशृङ्खलम निरर्गलम्
यथेच्छमित्यर्थः । व्याप्नुवत्या प्रसरन्त्याः ईक्षणद्वय्या नेत्रद्वन्द्वस्य ।
कर्मणि षष्ठी । परस्परम अन्योन्यम् । आक्रान्तम् आक्रमणम् अन्योन्य
संघर्षणम् इतरेतरसम्मर्दनमिति यावत् । आक्रान्तमिति आङ्पूर्वा
त्क्रमेर्भावे क्तः । तस्य निवारणम् निरोधः । तत्र तस्मिन् विषये ।
अर्गलाम् परिघाम तत्सदृशीम तन्निवारणसाधनभूतामित्यर्थः ।
 
इत्यमरः । अमंस्त अमन्यत । मन ज्ञाने
 
158
 
• तद्विष्कम्भेऽर्ग़लं न ना
 
"
 
...
 
-
 
इत्यस्माल्लुङ् । अनुदात्तत्वादिडभावः । स्फुटम् नूनमित्युत्प्रेक्षा । तस्य
नासिका नेत्रव्याप्ति प्रतिरोद्धुं मध्ये स्थापितालेव प्रतिभातीति
वस्तूत्प्रेक्षेयम् ॥
 
तस्य केशपाशं प्रकथयति
 
"
 
अधारयद् गर्भाितरक्तसन्ध्यकं
नृपात्मज़: केशकलापमायतम् ।
दृढानुरागच्छुरितैर्मृ गीदृशा
मनुप्रविष्टं हृदयँरिवान्तरा ॥
 
15
 
अधारयदिति ॥ नृपस्य आत्मजः नृपात्मजः राजकुमार ।
 

 
दृढः गाढः अनुरागः अनुरक्तिः प्रेमा स तथोक्तः । तेन छुरितैः
रूषितैः आच्छादितैः अनुरागमयैः इति यावत् । मृगीदृशाम सुन्दरी