This page has not been fully proofread.

मधुराविजये
 
मध्यगतं
 
चन्द्रबिम्बमन्तःकलङ्कविरहित मुखचन्द्रेण साम्यमादधत् पूर्वं दूरे
स्थितम्, इदानीं नवयौवनोदये कलङ्कवत् किञ्चिदुत्पद्यमानश्मश्रुसंवलितं
तन्मुखचन्द्र शोभमानं दृष्ट्वा तमनुकर्तुमभिलषति यदि स्त्रकलङ्क
बहि प्रकाशय्य सफलमनोरथं भवेदिति तर्कया
मीति निष्कृष्टोऽर्थः । निरुपमाना तदाननश्रीरिति भावः ।
यद्यर्थोपमेयमिति नवीनाः । प्राचीनास्तु बहिः कलङ्कवतचन्द्र
स्वतोऽसम्बन्धेऽपि सम्भावनायां तत्सम्बन्धकथनादतिशयोक्तिरियमित्या
चक्षते । अभूतोपमेयमुपमानाप्रसिद्धेरिति प्राचीनतमाः । आनन्दाविन्दौ
च स्थितयोश्श्मश्रुकलङ्कयोरेकस्य धृतश्रीकत्वं वर्णितमित्युपमेयोत्कर्षस्य
गम्यमानत्वाद्व्यतिरेक़ध्वनिरपि । गुरुदारागमनादिना संप्राप्तपापपक एव
कलङ्कत्वेन विद्यते निगूढतया चन्द्रे पापपङ्ककलङ्कयोरभेदेनाभिधानात् ।
स यदि बहिः प्रकटितो भवति तदानीं निष्कलङ्कस्य नवयौवन
सञ्जातश्मश्रुशोभाभिरामस्य तदाननस्य नितरां साम्याभाव एव
तेनेति 'धृतश्रियः' 'कलङ्करेखया' 'व्रजेत् ' इत्यादिभिः काचन
स्फुतिरपि । चन्द्रस्य स्त्रीग्रहत्वेन यथाकथमप्यसम्भावित रोमवृद्धेस्तादृश
शोभासम्पादनं नैव संभवतीति च गम्यते । 'वृतश्रिय' इत्यत्र 'कृत
श्रिय' इति परिष्कॠणां संस्कारश्चिन्त्यप्रयोजनः । मातृक़ापाठेनैव
व्याख्यातदिशा यथास्थितस्यैवोपपत्तेः ॥
 
156
 
रक्तायतलोचनत्वमस्मिन् कथ्यते
 
विनिद्रपङ्क रुहदामदीर्घयो
 
दृ शोरुपान्ते जनितोऽस्य शोणिमा ।
अनर्गलस्वप्रसरप्ररोधक़
श्रुतिद्वयीदर्शितरोषयोरिव ॥
 
विनिद्रेति ॥ अस्य राज्ञः विनिद्राणि विकसितानि परुहाणि
 
13