This page has not been fully proofread.

154
 
तस्य बाहू वर्णयति
 
मधुराविजये
 
घनांसपीठौ कठिनारुणाङ्ग ली
पटुप्रकोष्ठौ परिधानुकारिणौ ।
महौजसस्तस्य मनोहरौ भुजा
वपश्यदाजानुविलम्बिनौ जनः ॥
 
11 11
 
घनांसेति ॥ जनः जनसमूहः प्रजा इत्यर्थः । महत् विपुलम्
ओजः तेज: बलं वा यस्य महौजाः । तथाविधस्य तेजस्विनो बल
वतो वा इत्यर्थः । तस्य राज्ञः घनौ अत्युन्नतौ अंसपीठौ भुजशिरसी
ययोस्तौ वृषस्कन्धाविवात्युन्नतभुजाग्रभागावित्यर्थः । किञ्च । कठिने
ज्याघर्षणात् क़र्कशे ज्याकिरणैरङ्किते इति यावत् । अरुणे ताम्रे
रक्तवर्ण अङ्गङ्गुली करशाखे ययोस्तौ । 'अङ्गलिः करशाखायां कणि
कायां गजस्य च' इति हैमविश्वप्रकाशौ' । किञ्च । पटू दृढौ ज्याघा
तादिना व्यथितौ ' प्रकोष्ठौ मणिबन्धस्य कूर्परस्याप्यन्तराप्रदेशौ ययो
स्तौ । 'प्रकोष्ठमन्तरा विद्यादरत्निमणिबन्धयो' रिति कात्यः । 'प्रकोष्ठो
मणिबन्धस्य कूर्परस्यान्तरेऽपि च इति मेदिनी । किञ्च । परिघम्
अर्गलम अनुकुरुति परिघानुकारिणौ कवाटरोधन काष्ठसदृशौ
 
"
 

 
,
 
तद्वत्पीनौ दीधौ चेति भावः ।
 
(
 
परिघोऽस्त्रे योगभेदे परिवातेऽर्ग
 
,
 
लेऽपि च ' इति हैमः । किञ्च । जानू अभिव्याप्य आजान
अभिविधावव्ययीभावः । आजानु यथा भवति तथा विलम्बिनौ
अधिकं लम्बमानौ जानुपर्यन्तं व्याप्तावित्यर्थ: । अतएव मनोहरौ
सुन्दरौ भुजौ बाहू अपश्यत् आलोकयामास ऐक्षत । अतितृष्णयेति
शेषः । सकलज़नानन्दकारिणौ तस्य बाहू
राज्ञि वीरत्वभाग्यवत्त्वादयो गुणा वर्णिताः
इति भावः । अनेन
 
:
 
भवन्ति । बाहुदैर्घ्यस्य
 
हस्तकाठिन्यस्य समुन्नतभुजशिरस्कत्वस्य च सामुद्रशास्त्रे फलमेव
 
मुक्तम् । "दोर्दीर्घत्वे भाग्यवान् भवेत्
 
यस्य हस्ततलं सम्यक्कठिनं