This page has not been fully proofread.

तृतीय सर्ग:
पराक्रमत्रासितचित्तवृत्तिभि
मृगाधिराजैरुपदीकृतामिव ॥
 
"
 
11 9 11
 
अधारयदिति ॥ सः राजसूनुः नृपकुमार: कम्पराजः देहस्य
शरीरस्य । सुष्ठु भावः सौष्ठवम् अतिशयितत्वम् आधिक्यम् सौभा
 
ग्यमिति यावत् ।
 
मरः
 
। " सुष्ठुशब्दात्
 
बलवत्सुष्ठु किमुत स्वत्यतीव च निर्भरे' इत्य
प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् '
इत्युद्गात्रादित्वेनाञ् " इति मल्लिनाथ: । दर्शितम् विलोकितम्
द्रष्टृभ्यः अप्रतिहततया दर्शनविषयीकृतम् देहसौष्ठवम् यया ताम् ।
स्वस्य ( अवलग्नस्य) सूक्ष्मत्वेन स्वप्रतिरोधाभावात् तद्देहसौभाग्यं सर्वेषां
सुस्पष्टं दर्शनीयमभूदिति भावः । तनुः सूक्ष्म : वृत्तः वर्तुलः मध्यः
अवलग्नः यस्य तथोक्तः । तत्ताम् । मध्योऽवलग्नं विलग्नं मध्यभः
इति नाममाला । 'तनुवृत्तमध्यमा' मिति तु मातृकापाठ: ।
स्मिन् पाठे मध्यमशब्दस्य अवलग्नवाचकत्वेऽपि स्त्रीलिङ्गता तस्य
स्वरे मध्यदेशेऽप्यव
 
"
 
>
 

 
चिन्त्या । मध्यमो मध्यजेऽन्यवत् । पुमान्
लग्ने तु न स्त्रियाम् । स्त्रियां दृष्टरजोना कर्णिकाङ्ग
लिभेदयोः '
इत्यादिभिः पुंलिङ्गवाचकताया एव दर्शनात् । पराक्रमेण स्वविक्र
मेण स्वशौर्यप्रदर्शनेनेति यावत् । त्रासिताः त्रासवत्यः कृताः चित्त
वृत्तयः मनोव्यापाराः येषाम् तैः तत्पराक्रमदर्शनाद्विभीतचित्तैरित्यर्थः ।
मृगाणाम् सत्त्वानाम् पशूनाम् अधिराजानः मृगाधिराजाः मृगेन्द्राः
सिंहाः । 'मृगः पशौ कुरङ्ग च करिनक्षत्रभेदयोः ' इति विश्वः
राजाह' इति टच् । तैः उपदीकृताम् उपहारीकृ
 
मेदिनी च ।
 
"
 
(
 
151¹
 
,
 
ताम् उपायनमुपग्राह्यमुपहारस्तथोपदा इत्यमरः । अभूततद्भावे
च्विः । स्वानुरक्तं तं कर्तुं समर्पितोपायनभूतामिवेत्यर्थः । इवेति
सम्भावनायाम् । अधारयत् अधत्त पर्यग्रहीदित्यर्थः । सिंहमध्योऽयं केवल
सौन्दर्यभूमैव न पराक्रमेणाप्यतिशेते सिंहानिति प्रतीयते । स्वरूपो