This page has not been fully proofread.

मधुराविज़ये
 
(
 
विकारभूता मेखला सुवर्णमेखला । सङ्घातविकारषष्ठ्याश्चोत्तरपद
लोप ' इति विकारशब्दस्य लोपः । अथवा सुवर्णशब्दस्य सुवर्ण
विकारे लक्षणेति वा । स्वर्णमयं कटीभूषणं यस्य तथोक्तः । ' स्त्री
कट्यां मेखला काञ्ची सप्तकी रशना तथा' इत्युक्त्वा 'स्त्रीक़टी
भूषणमेव मेखले' त्यमरसिंह आह तथापि 'स्त्री' इत्यविवक्षि
तम् पुंस्कटिभूषणेऽपि इति व्याख्यातार । स्थूलशिला बृहत्पाषाणम्
सेव विशङ्कटम् विशालम दिशङ्कटं पृथु वृहद्विशालं पृथुलं महत्
इत्यमरः । कटिस्थलम् श्रोणिप्रदेशः । कर्ता । 'कटो ना श्रोणिफलकम् '
इत्यमरः । नूतनाः नूत्नाः धातुपट्टिका: फलकवद्विशालाः गैरिकादि
धातवः अश्मविकाराः 'इन्द्रियाण्यश्मविकृति शब्दयोनिश्च धातवः'
इत्यमरः । तैः परिष्कृताम् अलङ्क ताम 'संपरिभ्यां करोतौ भूषणे'
इति सुट् ।
परिनिविभ्य' इति षत्वम् । अञ्जन इति भूभृत्
अञ्जनभूभृत् अञ्जननामा अचल: वेङ्कटाद्रिरिति यावत् । तथाचोक्तं
ब्रह्माण्डपुराणे - " 'श्रीवेङ्कटगिरिर्नाम क्षेत्रं पुण्यं महीतले "
इत्युपक्रम्य
 

 
"

 
अञ्जनाद्रिवृषाद्रिश्च वेदाद्रिर्गरुडाचलः । तीर्थाद्रिश्श्रीनिवासाद्रि
चिन्तामणिगिरिस्तथा ॥ वृषभाद्रिर्वराहाद्रिर्ज्ञानाद्रिः काञ्चनाचलः ।
आनन्दाद्रिश्च नीलाद्रिः क्रीडाद्रि: पुष्कराचल: ॥ सिंहाचलच श्रीशैल
इति नामानि विंशतिः
इति । तस्य तटीम् भूमिम् प्रदेशम
व्यडम्बयत् अन्वकरोत् । तथा तौल्यमभजदित्यर्थः । उत्तमसुवर्णस्य
लौहित्यमिति कविसमयः । गैरिकादिधातवो रक्तवर्णाः । महोन्नतस्य
तस्य कनकमेखलालङ्क तो महान् कटिप्रदेश गैरिकादिधातुमण्डितस्य
गिरेस्तट इवाभातीति सावयवोपमा धर्मलुप्तेयम् । उपमावाचकेषु च
दण्डी " विडम्बयति संधत्ते हसतीत्यसूयति" इत्येवं पपाठ ॥
 
150
 
...
 
"
 
सिंहमध्योऽयमिति प्रब्रूते
अधारयदर्शितदेहसौष्ठवां
 
1
 
स राजसूनुस्तनुवृत्तमध्यताम् ।