This page has not been fully proofread.

मधुराविजये
 
सौन्दर्यस्य
 
इति
 
अल्प
 
"
 
स रूपेति ॥ सः कम्पराज । रूपस्य
शुक्लादौ सौन्दर्ये नाटकेऽपि च ' इति नानार्थरत्नमाला । गर्व:
अभिमानः । रूपविद्याधनादिप्रयुक्तात्मोत्कर्षाधीनपरावहेलनं गर्व
रसमञ्जरी । तेन । हेतौ तृतीया । हेतुभूतेन गर्वेणेत्यर्थः ।
विद्यो महाग " वींति निष्कारणगर्वस्यैव दूषितत्वादिति भावः ।
स्मरस्य मन्मथस्य जयः सर्वोत्कर्षः तस्य वैजयन्तिकाम पताकाम्
असाधारणचिह्नभूताम् । सौन्दर्यस्थावधिरयमेवेति प्रख्यापिकामित्यर्थः ।
' प्रद्युम्नो मीनकेतन' इति मदनस्य मीनध्वजत्वेन
रूपामिति गम्यते । अङ्घ्रिणा चरणेन वामेनेति ज्ञायते । अन्यतिर
प्रसिद्धेर्मत्स्य
स्क्रियावसरे लोके तस्यैवोपयुज्यमानत्वात् । ' पदङ्घ्रिश्चरणोऽस्त्रियाम्'
इत्यमरः । निरास्थत् व्यक्षिपत् प्राहरत् ।
स्वस्मिन् स्थितवति
सौन्दर्यविजितमन्मथे
 
तादृग्विजयपताकायास्स्वयशोहानिकरत्वादिति
 
अन्यथा
 
भावः । निर्पूर्वकादस्यते: 'अस्यते: स्थु' गिति थुक् । अनेन लोकैक
सुन्दराद्रतिपतेरप्यतिशायि सौन्दर्यमस्येति ज्ञायते । नूनम् ।
कथमिदं संघटत इति भावः । तत्र च हेतुं व्यतिरेकमुखेन ब्रूते ।
न चेत् न यदि एवं न भवति यदीत्यर्थः । तस्य कम्पराजस्य
अतिकोमले अत्यन्तं मृदुनि स्पर्शनमात्रेणापि म्लायतीति यावत् । तले
अधःप्रदेशे अधस्स्वरूपयोरस्त्री तल मित्यमरः । अर्थात् पादयो
'
रित्यवगम्यते । सु सुष्ठु विशदाः
तथोक्तम् । शोभनाः लेखाः यस्येति व्युत्पत्त्या शोभनाकारवदिति
लेखा: रेखा: यस्मिन्
च गम्यते । 'सु पूजायां भृशार्थेऽनुमतिकृच्छ्रसमृद्धिषु' इति मेदिनी ।
'रेखा लेखा भवेत् ' इति च द्विरूपकोशः । मीन: मत्स्यः स एव
लाञ्छनम् तदाकार चिह्नम् । कथम् केन प्रकारेण आलक्ष्यत
आङ्कयत सुदृढमासज्यत । तत्पादतलयोः सुविशदमीनरेखावत्त्वम्,
मन्मथविजयध्वजीयक़म्पराजगाढपादताडनानुमापकमिति भावः । सुलेख
मित्यनेन स्वाश्रय सौन्दर्यादतिशेते मीनरेखेयं मन्मथवैजयन्तिकामिति च
 
148
 
(
 
रूपं स्वभावे
 
((