This page has not been fully proofread.

तृतीयसर्गः
 

 
यावत् । किञ्च । धराशब्देन तत्स्थाः प्रजा लक्ष्यन्ते । तस्याः अनु
रागः प्रेम स एव द्रुमः वृक्षः । तस्य पुष्पमञ्जरी कुसुमगुच्छः ।
पुष्पमञ्जरीशब्दे पुष्पशब्द: कर्णावतंसादिषु कर्णशब्द इव सन्निधि
बोधकः । तथाभूताम् । प्रजानुरागस्य प्रख्यापिकामिति यावत् । किञ्च ।
नितम्बिनीनाम् स्त्रीणाम् ' ललना च नितम्बिनी' इत्यमरः । नेत्राणि
नयनानि । तान्येव चकोराः चन्द्रिकापायिनः पक्षिविशेषाः । तेषाम्
चन्द्रिकाम् चन्द्रकान्तिम, ज्योत्स्नाम् स्त्रीणामत्यन्तम् नेत्रप्रीतिकरी
मिति यावत् । आस्कन्दः शोषणम् दाहः स्वरूपादर्शनमित्यर्थः । ।
तद्वत्कृतम् आस्कन्दितम् । आस्कन्दशब्दान्मतुबन्तात्तत्करोतीति ण्यन्ता
त्कर्मणि क्तः । विन्मतो ' रिति मतुपो लुक़् । तिरोधापितमित्यर्थः ।
 
(
 
145
 
तादृशम शैशवम् बाल्यम् यया तथोक्ताम् दशाम् अवस्थाविशे
षम् नवयौवनमित्यर्थः । अवापत् प्रापत् । अधिगतवानित्यर्थः । अत्र
यौवनदशायाः दीर्घिकात्वादिरूपणम् पञ्चबाणादीनां द्विपत्वादिरूपणे
कारणं जातमिति परंपरितरूपक्रम । एकस्या एव यौवनदशायाः
अनेकथा रूपणमिति मालारूपत्वं तस्येति मालापरंपरितरूपकमलङ्कारः ॥
 
स नव्यतारुण्यनिरस्तशैशवो
विभुविभक्तावयवो व्यराजत ।
वसन्त निर्धूततुषारमण्डल:
पतिदिनानामिव तीव्रदीधितिः ॥
 
11 5 11
 
स नव्येति ॥ नव्यम् नवीनम् नूतनम् सद्यकालसमुत्पन्नम्
तारुण्यम् यौवनम्, तेन निरस्तम् दूरतो निक्षिप्तम् अपसारित
मिति यावत् । तादृक् शैशवम् बाल्यम् येन स तथोक्तः । बाल्यदशामप
हाय नवयौवनं प्राप्त इत्यर्थः । अतएव विभक्ता: अन्यैरसङ्कलिताः
पृथक् स्थिताः स्वेन रूपेण अत्यन्तं विवृद्धा इति यावत् । तादृशाः
अवयवा यस्य स तथोक्तः । तथाविधः सः प्रकृतः प्रभुः विभुः
 
"
 
-