This page has not been fully proofread.

+
 
1 43
 
तृतीय सर्गः
 
पाण्डवास्सर्वे सम्भूय भूमौ कम्पराजरूपेण समवतीर्णा इति
तेषां गुणोत्कर्षस्सर्वोऽप्यस्मिन् प्रकथ्यते ॥
 
स सत्यवार भूरिबलो धनुर्धर
स्तुरङ्गमारोहणकर्ममर्मवित् ।
कृपाणविद्यानिपुणः पृथाभुवा
मदशि सङ्घात इवैकतां गतः ॥
 
3
11 11
 
स सत्येति ॥ सत्या तथ्या अनृतरहिता वाक् वचनं यस्मिन्
 
"
 
,
 
• तथोक्तः । सत्यसंध इत्यर्थः । तादृशः । युधिष्ठर इति च गम्यते ।
आपदि महत्यां संजातायामपि " अश्वत्थामा हतः कुञ्जर इति
सत्यं परिपालयितुमेव प्रायतत धर्मज़ इति कथयति महाभारतम् ।
भूरि बहुलम् अत्यधिकम् बलम् महाप्राणता यस्य तथोक्तः ।
तादृशः । भीम इति ज्ञायते । नागलोके नाग़ैर्दत्तममृतं निपीय
नागायुतबलो बभूव भीम इति भारती गाथा । धरतीति धरः
पचाद्यच् । धनुषः धर: धनुर्धरः इति विग्रहः । धानुष्कः धनुर्वि
द्यायामत्यन्तं पटुरिति यावत् । तादृशः । 'धन्वी धनुष्मान् धानु
को निषङयस्त्री धनुर्धरः इत्यमरः । अर्जुन इति गम्यते ।
धनुर्विद्यायामेकवीरोऽयं त्रिलोक्यामपीति तच्चरित्रपरिशीलनेन ज्ञायते ।
लोकैकवीरत्वमस्मै प्रतिज्ञाय तथाकृतं च गुरुणा । तुरेण त्वरया जवेन
गच्छन्तीति तुरंगमाः अश्वाः । गमश्चेति खच् । सुमागमः । तेषाम् आरो
हणम् अधिरोहणम् तदेव कर्म व्यापारः । तस्य मर्माणि रहस्यानि वेत्तीति
विवप् । स तथोक्तः । अश्वचोदनव्यापारपारीण इति यावत् ।
तादृशः । नकुल इति गम्यते । महावृष्टावप्यस्पृष्टजलकणः तदन्तरा
वाजिनमारुह्य गन्तुं प्रभवति नकुल इति प्रसिद्धिः । कृपाणविद्या -
याम् खड्गप्रयोगविज्ञाने निपुण: कुशल: प्रवीण: असियुद्धपारंगत