This page has not been fully proofread.

142
 
॥ 2 ॥
 

 
स तीर्थेति ॥ गुणैः शौयौदार्यादिभिः गुणविशेषै: अभिराम:
मनोज्ञः आह्लादकः । शाता कुशाग्रवन्निशिता सूक्ष्मेति यावत् । तादृक्
धी: बुद्धिः यस्य तथोक्तः सूक्ष्मबुद्धिः । इदं च विशेषणं पूर्ववद्
गुरूपदेशस्य निमित्तमात्रतामत्र सूचयति । सः कम्पराजः । तीर्थात्
गुरोः उपाध्यायात् ' निपानागमयोस्तीर्थमृषिजुष्टजले गुरौ ' इत्यमरः ।
आयुधानि शस्त्राणि खजादीनि, शस्त्राणि बाणा: आयुधशस्त्राणि ।
शस्त्रशब्दश्शस्त्र विशेषं वाणमभिधत्ते । शस्त्राणि चैवमभिहितानि महा
भारतव्याख्याने नीलकण्ठीये - " चतुष्पादमिति " - " मन्त्रमुक्तं पाणिमुक्तं
मुक्तामुक्तं तथैव च आमुक्तं च धनुर्वेदे चतुष्पाच्छस्त्रमीरितम्
इति । अस्य विवरणं च तत्रैवैवमुक्तम् "यस्य प्रयोग एवास्ति न
तूपसंहारस्तदाद्यम् । बाणादि द्वितीयम् । प्रयोगोपसंहाराभ्यां युक्तं
तृतीयम् । चतुर्थं मन्त्रसाधितं ध्वजादि
यद्दर्शनादेव शत्रवः पला
यन्ते " इति । बाणादितरे त्रिविधाइशस्त्रविशेषाः आयुधशब्देनोच्यन्ते,
गोबलीवर्दन्यायात् । तेषां संवित् ज्ञानम् तद्विषयकज्ञानमित्यर्थः ।
'संवित्संभाषणे ज्ञाने संग्रामे नाम्नि तोषणे' इति सुधा । लब्धा
प्राप्ता समधिगता शस्त्रास्त्रसंवित् येन तथोक्तः ।
तेन गुरुणा
पित्रैव गुरुर्गीप्पति पित्रादा ' वित्यमरः । अन्येन देशिकेन न
केनापीत्येवकारार्थः। शिक्षित शिक्षावान् विद्योपादानवान् कृतस्सन् ।
अखिलेषु समस्तेषु निरवशेषेषु । शराः अस्यन्ते क्षिप्यन्ते अनेनेति
शरासनम्, धनुः । अस्यतेः करणे ल्युट् । असिः खङ्गः । ते प्रमुखे
आदिभूते येषां तेषु । 'प्रमुखं प्रथमे मुख्ये' इति हैमः । तादृक्षु
अस्त्रेषु आयुधेषु । ' आयुधं तु प्रहरणं शस्त्रमस्त्रम्' इत्यमरः । पटो
भविः पाटवम् सामर्थ्यम् अगच्छत् अवापत् । गत्यर्थास्सर्वे प्राप्त्यर्थाः ।
पितुरेवायमधिगतधनुर्वेदो बभूवेति सारांशः ॥
 
f
 
मधुराविज़ये
 
शरासनासिप्रमुखेषु शातधी
रगच्छदस्त्रेष्वखिलेषु पाटवम् ॥
 
(
 

 
-
 
"