This page has not been fully proofread.

32]
 
तृतीयसर्गः
 
S
 
}
 
यस्य स तथोक्त इत्यस्मिन् पाठे समन्वयः । चूला चूडा तस्या
इदम् चौलम् । ' तस्येद ' मित्यण् । चौलसंस्कारं प्रत्याश्वलायन एव
माह 'तृतीये वर्षे चौलं यथाकुलधर्मं वा इति । सकलासु सम
स्तासु कलासु क़लाविशेषेषु पदवाक्यप्रमाणधर्मशास्त्र राजनीत्यादिष्वा
गमविशेषेषु । कुशलस्य भावः कौशलम् नैपुणम् तासु परिनिष्ठि
तत्वम् पारंगतत्वमिति यावत् । शश्वत् पुनः पुनः क्रमेणेत्यर्थः । स्वत
एव स्वयमेव नतु लोकसाधारणो जन इव केवलं गुर्वधीनतयेति
भावः । स्वशब्दादात्मार्थकात्प्रथमान्तात्सार्वविभक्तिकस्तसिल् । लब्ध
वान् प्राप्तवान् । तस्येत्यर्थालभ्यते । गुरो: देशिकस्य उपदेश: शिक्षा
विद्यादानप्रयत्न इत्यर्थः । स तथोक्तः । तु पुनरर्थकः । गुरूपदेशः
पुन इत्यर्थः । अपदेशताम् व्याज़ताम् केवललोकविडम्बनार्थतामेवे
 
त्यर्थः । यद्वा निमित्तभूतताम् कस्मिंश्चित्कार्ये यत्किञ्चित्कार
 
-
 
णेनावश्यंभाव्यमिति तन्मात्तप्रयोजनसाधकतामिति यावत् । "आचार्य
वान् पुरुषो वेद " इति श्रुतेः गुरुमुखादधिगताया एव विद्यायाः
ज्ञानप्रदत्वादिति भावः । ' अपदेशः पुमान् लक्ष्ये निमित्तव्याजयोरपि '
इति विश्वः । अगात् अवाप । प्राक्तनसंस्कारबलेन प्रयत्नमन्तरव
सर्वाः कलास्सोऽध्यगच्छदिति निर्ग़लितोऽर्थः । इणो लुङ् । ' इणो
गा लुङि ' इति प्रकृतेः गाङादेशः । अस्मिन् सर्गे वंशस्थं वृत्तम् -
" जतौ तु वंशस्थमुदीरितं जरा विति लक्षणात् । सर्गोऽयं कम्पराज
विद्याभ्यासेन समुपक्रान्तः काञ्चीमाक्रम्य मधुराविजयं साधयेति कम्प
पित्राज्ञां प्रति
राजमनुशशास बुक्कराज कुमारोऽपि सोत्साहं
जग्राहेत्यभिदधत् परिसमाप्तः ॥
 
"}
 
ततां कथयति
 
"
 
नायकस्य कलाविशेषेषु प्रावीण्यमभिधाय धनुर्वेदेऽपि पारङ्ग
 
-
 
14 1
 
स तीर्थलब्धायुधशस्त्रसंविदा
गुणाभिरामो गुरुणैव शिक्षितः ।