This page has not been fully proofread.

श्रीः
 
मधुराविजयम्
भावप्रकाशिकाख्यव्याख्यासमेतम्
तृतीय सर्गः
 
नायकस्य बाल्यदशां पूर्वं वर्णयित्वा इदानीं कलाकौशलादि
 
तस्य प्रस्तौति
 
ततो यथावत्कृतचौलसंस्क्रियो
नरेन्द्रसूनुस्स्वत एव लब्धवान् ।
क़लासु शश्वत्सकलासु कौशलं
गुरूपदेशस्त्वपदेशतामगात् ॥
 
n 1 n
 
तत इति ॥ ततः अनन्तरम् स्वसोदरैस्साकं दिनदिनाभि
वृद्धेरुत्तरकाल इत्यर्थः । नरेन्द्रसूनुः राजकुमारः कम्पराजः । यथा
वत् योग्यतानुरूपं यथाविधीत्यर्थः । तदर्हमिति यथाशब्दात् वतिः ।
वतिरयं यद्यपि कर्मवाचिनो द्वितीयान्ताद्विहितः । तथापि वृत्ति
विषये यथाशब्दस्य सत्त्ववाचित्वमिति योग्यतामर्हति करणमिति
क्रियायोगेन तत्सङ्गतिः । अन्यथा तथात्वमित्यादिप्रयोगाणामप्यसङ्ग
तिस्स्यात् । त्वतलोः षष्ठ्यन्तादेव विहितत्वात् । कृतम्, निर्वतितम्
चौलम् चूडाकर्म उपनयनात्प्राक्कर्तव्यः केशसंस्कारः । तदेव संस्क्रिया
संस्कार : गुणाधायकं कर्म यस्य तथोक्तः । तादृशस्सन् । ' कृतचौल
सत्क्रिय ' इति मातृकापाठ: । चौलमिति सत्क्रिया सत्कृत्यम पुण्य
कार्य गुणाधायकत्वात् पावकं कार्यमित्यर्थः । कृता चौलसक्रिया