This page has not been fully proofread.

द्वितीयसर्गः
 
यद्वा
 
6
 
त्पशुशब्देन ज़ीवो लक्ष्यते । तेषाम् पतिः प्रभुः स्वामी । अन्तर्यामी
सन् जीवानां नियन्ता भवति परमेश्वर इत्येवमुच्यते ।
पश्नाम प्रमथानाम पतिः प्रमथाधिप इति वा ।
पशु गादौ
छगले प्रमथे च पुमानयम् ' इति रभसः । ' पिनाकी प्रमथाधिपः
इति शिवपर्यायेष्वमरः । सूर्यचन्द्राग्निनेत्रवत्त्वं च शिवस्य प्रसिद्ध
मागमेषु । स इव । निरपायैः अपायरहितैः
निरपायै: अपायरहितैः अपृथग्भूतैः अवि
श्लिष्टै: परस्परं सम्मिलितैः सापेक्षैरिति यावत् । प्राभवोत्साहमन्त्रैः-
प्राभव: प्रभुशक्तिः । प्रभुरेव प्राभव इति प्रज्ञादित्वादण् । उत्साह
उत्साहशक्तिः मन्त्रः मन्त्रशक्तिः प्रभुमन्त्रोत्साहशक्तयस्तित्र इत्यर्थः ।
कोशदण्डज़ं तेजः प्रभुः, कर्तव्यार्थेषु स्थेयान् प्रयत्नः उत्साहः, षड्
गुणचिन्तनं मन्त्रः इति तेषां संग्रहेण लक्षणम् । षड्गुणानमर इत्थ
माह ' सन्धिर्ना विग्रहो यानमासनं द्वैधमाश्रयः । क्षयः स्थानं च
वृद्धिश्च त्रिवर्गो नीतिवेदिनाम् ' इति । तैः । नयः
त्मोदयपरज्यानिरूपः । 'आत्मोदयः परज्यानिर्द्वयं
 
नीतिः ।
 
सचा
 
नीतिरितीयती
 
"
 
137
 
"
 
'
 
-
 
}
 
-
 
इति माघः । स इव ।
 
श्रिणीभुवोऽनुपसर्गे ' इति घञा 'नाय
 
इति भाव्यम् । तथापि
 
कृत्यल्युटो बहुलम् ' इति बाहुलकादच् ।
 
' त्रिभिरपि ' इत्येतस्य
 
देहलीदत्तदीपन्यायेन
 
पुरुषार्थैः ' इत्यने
नापि संबन्धः । अपि समुच्चये। धर्मसहितोऽर्थः धर्मार्थसहितः कामः
इत्येवंविधैस्त्रिभिरित्यर्थः । तथाविधानामेव तेषां श्रेयस्साधनत्वेन पुरुषार्थ
धर्मस्तु
त्वस्मरणात् । धर्मकामार्थसंज्ञैः धर्मः वेदविहितो यज्ञादिः - '
तद्विधिः' इत्यमरः । कामः स्यादिसुखम् । अर्थः द्रविणम् ' हिरण्यं द्रविणं
द्युम्नमर्थ रैविभवा अपि ' इत्यमरः । ते संज्ञा : वाचकाइशब्दाः येषां तैः
तत्तदास्पैरिति यावत् । पुरुषैः अर्थ्यन्ते अभिलप्यन्ते श्रेयस्साधनत्वे
नेति पुरुषार्था: पुरुषैरवश्यं साधनीयाः प्रयो जनविशेषा इत्यर्थः ।
अर्थ उपयाच्यायाम इत्यस्मात् 'अकर्तरि च कारके संज्ञायाम्
इञ् ि। तैः । भव : संसार : ' भवः क्षेमे च संसारे सत्तायां प्राप्ति
 
"
 
"
 
"