This page has not been fully proofread.

30]
 
द्वितीय सर्गः
 
बाप्प: संतोषाणि । जातावेकवचनम् । अन्तरायः विघ्नः विघ्नकरः
दर्शन प्रतिबन्धक इति यावत् । आयुर्वं घृतमितिवत्कार्यकारणयोरभेदोप
चारः । अभवत् आसीत् । मनोगतं राज्ञः प्रीत्यतिशयं बहिः प्रकाश
नायेवोत्पद्यमानानां बाप्पाणां परिपूर्णानां नेत्रयोनिरवकाशेन भ्रश्यतां
सतां तदा तदा कुमारदर्शनं जायत इत्येवमुक्तिः । कुमारस्य लोकाति
शायि सौन्दर्यं पितुरतीव प्रीतिभाजनमभूदिति निर्गलितोऽर्थः । 'अनेन
" रूप मेवास्यैतन्महिमानमाचष्ट " इति न्यायेन महामहिमवान् शिशु
रयमिति ध्वन्यते ॥
 
आनन्दस्य स्थायी रतिरिति तत्परिपोषाय सात्त्विकेषु भावे
प्वश्रु वर्णयित्वा रोमाञ्च प्रादुर्भावमपि तदालम्बने राशि प्रस्तवीति –
 
आश्लिष्यतस्तस्य वृशा तनूज
मन्तः प्रहर्षेण विजृम्भितेन ।
 
प्रायः प्रणुन्नैर्बहिरङ्गकेभ्यः
 
प्रादुर्बभूवे पुलकप्ररोहैः ॥
 
'
 
वेकवचनम् । 'ईक्षणं चक्षुरक्षिणी दृग्दृष्टी च
 
125
 
32
 
आश्लिष्यत इति ॥ दृशा दृग्भ्याम् नेत्राभ्याम् । जाता
 
1
 
इत्यमरः । तनू
जम् आत्मजम औरसम् धर्मपत्न्यां जातं पुत्त्रमित्यर्थः । आश्लि
ष्यतः आलिङ्गतः नेत्राभ्यां पिबतः गाढमालोकयत इत्यर्थ: । तस्य
राज्ञः । अन्तः अन्तरा अधिकरणशक्तिप्रधानमव्ययमिदम् । हृदयाभ्य
न्तर इत्यर्थः । विजृम्भितेन अपर्याप्तावकाशत्वादतिरिच्यमानेन ।
प्रहर्षेण हर्षातिशयेन । प्रयोजककर्त्रा । प्रणुन्नैः प्रेरितः चोदितैः
बहिनिष्कासितैरित्यर्थः । प्रपूर्वाण्णुदतेः कः । • उपसर्गादसमासेऽपि
णोपदेश' स्येति णः । प्ररोहा इव पुलका - पुलकप्ररोहा अङ्कुरा
कारपुलका रोमविक्रिया: पुलकः पुनः रोमाञ्चकण्टको रोमवि
 
"