मधुराविजयम् /257
This page has not been fully proofread.
122
मधुराविज़ये
।
कस्य संगतिः । इदं च रूपकमचञ्चलश्रीत्याद्येकवाचकानुप्रवेशेन भेदेऽ
प्यभेदोक्तिरूपया कविप्रौढोक्तिसिद्धयातिशयोक्त्या समुज्जीवितेति तयो
स्संकरः । अन्यमवतारं प्रकाशयन्तीमित्येतद्वाक्यार्थं प्रति तदुत्तर
वाक्यार्थस्य विशेषणगत्या हेतुत्वात्काव्यलिङ्गमलंकृतिः । तच्च काव्य
लिङ्गं पूर्वोक्तयातिशयोक्त्या श्रीवत्समुद्रेत्युपमया च सुष्ठु संकीर्यत
इति दिक् । श्रीवत्सस्वरूपनिर्वचने च व्याख्यातारो बहवो बहुधा
ऽभिप्रायान् सप्रमाणमाविश्चक्रुः । वरदराजाभ्युदये तावदालङ्कारिक
मूर्धन्याः दीक्षितपादास्तान् सर्वान् प्रदर्श्य " स च वक्षसि दक्षिणभाग
गतो बिल्वरूपो लाञ्छनविशेष इति सार्वभौम प्रवादः" इति व्याचख्युः ।
विस्तरस्त्वान्धयां सहृदयरञ्जन्याख्यायां मदीयायामेतदीयायां व्याख्यायां
द्रष्टव्यः । कल्क्यवतारश्चैवं वर्णितो दशावतारचरिते
म्लेच्छाच्छा
दितसर्वाशा कृपणाक्रन्दनादिनी मेदःकर्दमिनी क्लेदं रक्तैर्यास्यति
मेदिनी । तस्मिन् काले निरालोके लोके पापतमोमये । उत्पत्स्यते
ऽर्कसङ्काशश्शिशुः कर्किकुले द्विजः। विष्णुर्भूभारशान्त्यर्थी सोऽथ
विष्णुयशाः क्षितौ । चरिष्यत्यश्वमारुह्य म्लेच्छसंचयदीक्षितः" इति ।
अत्र च मातृकायां 'काले कलाम' पीति पाठएव समुपलभ्यते ।
परिशील्यमाने तदसङ्गतिः स्पष्टेति 'कलावपि ' इति मक़ारो वका
रतया मया विपरिणामितः । पूर्वमुद्रापास्तु 'काये कलामपी ' ति
समकुर्वन् । 'भक्षितेऽपि लशुने न रोगशान्ति' रिति स्वरसतस्तद
सङ्गतेस्तदुपेक्षणीयमेवेति सुधियो विभावयन्तु ॥
शुभलक्षणलक्षितं तस्य मुखं प्रब्रूते
-
ऊर्णासनाथायतफालपट्ट
मुन्निद्रपद्मच्छददीर्घने त्रम ।
ताम्रावरोष्ठं समतुङ्गनासं
मुग्धस्मिता मुखमुद्रहन्तम् ।
-
((
30